________________
५१४ द्याश्रयमहाकाव्ये
[मूलराजः] करीषवह्रौ स्वं वपुर्तुत्वा क्षित्वा । अङ्गुष्ठे करीषाग्नेर्दानेन स्वाङ्गं भस्मसात्कृत्वेत्यर्थः । यतोपिनद्धा मोहेन नियत्रितापिहिता मोहेनाच्छादिता विशेषणकर्मधारयगर्भे नन्समासेनपिनद्धापिहिता धीर्यस्य स तथा । स्वशरीरेप्यमूढ इत्यर्थः । योपि सूनुः सूर्यः सोप्यस्तसमये खं वपुः किरणरूपमग्नौ हुत्वा क्षिप्त्वाथानन्तरं प्रभाते प्राची पूर्वा दिशं गत्वा दिवमाकाशं यातीत्युक्तिः ॥
पृषोदरेण । जीमूत । इत्येतो "पृषोदरादयः" [१५५] इति साधू ॥ वतंस अवतंसकेन । वक्रय अवक्रयम् । सुपिहित अपिहित । पिनद्ध अपिनछ । इत्यत्र “वावाप्योः" [१५६] इत्यादिनावाप्योर्वप्यादेशौ वा । शार्दूलविक्रीडितं (शिखरिणी) छन्दः ॥
दशमः पादः समर्थितः ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेम.
चन्द्राभिधानशब्दानुशासनद्याश्रयवृत्ती षष्टः सर्गः समाप्तः ॥
१ सीषणं क. २ बी रूपंहु. ३ ए सी डी त । पिन.