________________
[ है ० ३.२.१५५. ]
५१३
तथा
ललमानजलबिन्दुस्वच्छमुक्ताकलापेन श्रीयुक्तोवतंस आपीडो यस्य तेन । “ शेषाद्वा” [७. ३. १७५] इति कच् । यद्वा । श्रियो राज्यलक्ष्म्याः शोभाहेतुत्वादवतंसक इव यस्तेनात एव जीवनस्य जलस्य मूतः पुटबन्धो जीमूत इन्द्रस्तस्येव डम्बरो लक्ष्म्याडम्बरो यस्यास्ति तेन । कीदृक्सने । छत्रेणोपलक्षितः । किंभूतेन । मौक्तिकानां वतंसैः शिरोमालाभिः कृत्वा पृषोदरेण जलबिन्दुवृन्दाध्यासितमध्येनेव तथा जीमूतडम्बरवता नीलत्वादिन्द्रचापानुकारखचितानेकवर्णमणित्वाच्छायाहेतुत्वाच्च मेघाडम्बरवतात एव श्रयवतंसकेन राज्यलक्ष्म्याः शेखरतुल्येन । वसन्ततिलका छन्दः ॥
षष्ठः सर्गः ।
अथ प्राचीं गत्वा द्रुहिणतनयां श्रीस्थल पुरे वपुः स्वं हुत्वाग्नौ सुपिहितपिनद्धापरयशाः । ययौ राजेः सूनुर्दिवमनपिनद्धा पिहितधीग्रहीतुं स्वर्गादप्यवनविधिनावक्रयमिव ॥ १०७ ॥
१०७. अथ पुत्रस्य राज्याभिषेकानन्तरं विजितसर्वशत्रुत्वात्सुपिहितं पट्याद्यावरणेनेवात्यन्तमाच्छादितं सुपिहितमप्यनिवारितप्रसरं कदाचित्कथमपि पिधानमतिक्रम्य प्रकटं स्यादित्याह । पिनद्धं च । लोहशृङ्खलयेव निगडितं चापरयशः शत्रुकीर्तिर्येन स राजे: सूनुर्मूलराजोवनविधिना प्रभूभूय रक्षाकरणेन स्वर्गादप्यवक्रयं भाटकं प्रहीतुमिव दिवं स्वर्गं ययौ । किं कृत्वा । श्रीस्थलपुरे सिद्धपुरापरनाम्नि श्रीस्थलख्ये नगरे पूर्वदिगभिमुखं प्रवहमानत्वात्प्राचीं दुहिणतनयां ब्रह्मपुत्रीं सरस्वतीं सर्वतीर्थोत्तमत्वेनात्मसाधनार्थं गत्वा तथान्नौ
I
१ ए सी 'न् । छात्रे. २ एसीते। मो. ३ ए सी डी एत ब ४ ए सी अत्र पु. ५ बी कं गृही ६ ए सी 'ठास्ये नँ,
६५