________________
५१२ ज्याश्रयमहाकाव्ये
[मूलराजः] त्रिणो गुरवश्वोचुरिदं च लग्नं सर्वग्रहैः श्रेष्ठमिति ज्योतिषिकाश्वोचुरित्यर्थः । क सति । राज्ञि मूलराजे पृष्टवति । किमित्याह । ईदृक्षश्वामुण्डराजलक्षण इनो राज्यस्थापनेन युष्माकं स्वामी युक्तो न वा । अन्यथापीदं व्याख्येयम् । तद्यथा । ईदृक्षो राज्याभिषेकावृपादिलमतृतीयस्थानगतत्वादिगुणोपेत इनो रविः कीदृक्षः स्यात्तथेग्लनमूर्तिस्थत्वोच्चैःस्थत्वादिगुणोपेतः शशी च कीदृ स्यात् तथेशा लग्ननवमस्थानद्वितीयस्थानकादशस्थानदशमस्थानषष्ठस्थानस्थतोच्चैःस्थत्वादिगुणोपेता भौमादयश्च मङ्गलबुधगुरुशुक्रशनिराहवश्व कीदृशाः स्युरिति ।
इंडर । ईशाः । ईदृक्षः । कीटक् । कीदृशाः। कीदृक्षः । अत्र “इदकिमीत्की" [१५] इतीकारकीकारौ ॥
विमृश्य । इत्पन्न "अनमः स्वो यप्" [१५४] इति यप् ॥ अनल इति किम् । अमूहा ॥ छत्रेण मौक्तिकवतंसपृषोदरेण जीमूतडम्बरवता यवतंसकेन । राज्येभ्यषिच्यत नृपेण तदा कुमारो वर्णाश्रमाभ्यवनवक्रयपुण्य
योग्यः॥१०६ ॥ १०६. तदा तस्मिन् शुभलग्ने नृपेण कुमारो राज्येभ्यषिच्यत । यतो वर्णा ब्राह्मणादय आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयो द्वन्द्वे तेषां यदभ्यवनं रक्षा तदेवे वक्रयो मूल्यं यस्य तत्तथा वर्णाश्रमाभ्यवनेनं क्रीतमित्यर्थः । यत्पुण्यं धर्मस्तस्य । यद्वा । वर्णाश्रमाभ्यवनस्य वक्रय इव भाटकतुल्यं यत्पुण्यं तस्य योग्यो वर्णाश्रमरक्षासमर्थ इत्यर्थः। किंभूतेन सता। मौक्तिकेषु वतंसा इव मौक्तिकवतंसाः प्रकृष्टमुक्ताफलानि वैः कृत्वों पृषन्ति जलबिन्दव इवोदरे यस्य तेन वक्षःस्थले
१५सी राज्यं स्था. २ डी 'नस्थितो'. ३ ए सी क्षः । ईदृ. ४ थी 'न्येमिपि. ५९ सीडी बक्र. ६ ए सी न कीत. ७ ए सी त्वा वृष.