SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [मूलराजः] ५०४ अनायुधाज्यै कुवदं कदश्वदृप्तं ददानं कुरथं प्रहारान् । अकद्रयोकद्वद आत्मजस्ते तं मुष्टिभिः कत्तृणवत्पिपेष ॥९४ ॥ ९४. कदश्वदृप्तं कुत्सिताः कुलक्षणादिना निन्दिता येश्वास्तैरपि दृप्तमज्ञत्वाद्गर्विष्ठं कुरथं कुलक्षणनिन्दिवरथं तं लाटं ते तवात्मजो मुष्टिभिः कृत्वा कत्तृणवत्कुत्सितं तृणं कत्तुणं रोहिपाख्या तृणजातिस्तदिव सुखेन पिपेष परासुं चकारेत्यर्थः। किंभूतम् । अनायुधाज्यै । अनायुधानरहिता याजियुद्धं तस्यै। मल्लविद्यार्थं कुत्सिता वदा वक्तारो यस्याज्ञवात्तं मूर्खमपि । अपिरत्र ज्ञेयः । बाहुयुद्धकुशलमपीत्यर्थः । प्रहारान्मुष्टिघातान्ददानम् । कीदृगात्मजः । नास्ति कद्रथः कुत्सितो रथो यस्य सोकद्रथः । यद्वा । कुत्सितो रथो यस्य स कद्रथो न तथाकद्रथस्तथाना. युधाज्यै कुत्सितो वैदः कद्वदो न तथा । यद्वा । कुत्सिता वदा वक्तारो यस्य स कद्वदो न तथा बाहुयुद्धे कुशलः सन् ॥ अनायुध । इत्यत्र "अन्वरे" [१२९] इति नजोन् । कदन्छ । इत्यत्र "को:" [१३०] इत्यादिना कत् ॥ कद्रयः । करदः । इत्यत्र "स्थवदे" [१३] इति कत् ॥ तत्पुरुष एवेच्छ न्येके । अन्यत्र कुरयम् । कुवदम् ॥ कत्तृण । इत्यत्र "तृणे जाती" [३२] इति कत् ॥ कत्रीणि यत्कापथकौपुरुष्यकाक्ष्याणि लाटस्य तदाभवन । किंत्रिद्विषामप्सरसां ततोभूदकापतिः कापुरुषेतरोसौ ॥९५॥ ९५. यद्यस्माद्धेतोस्तदा युद्धकाले कत्रीणि कु कुत्सितानि कानि वा कुत्सितानि त्रीणि तस्य लाटस्य क्षत्रियोत्तमत्वान्नाभवन् । कानि त्रीणी. १ सी मज्ञात्वा'. २ सी बदक. ३ बी कुत्सि. ४ ए सी त्रीणित्या.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy