________________
.
[हे. ३.२.१.१.] षष्ठः सर्गः।
४९९ गिलस्य गिलो गिलगिलस्तिमीनां गिलगिलस्तिमिगिलं गिलति वा तिमिगिलगिलस्तस्य भावस्तैमिंगिलगिल्यं महत्तमतिमिनिगलनं तेन चात्र रणस्याब्धित्वेन रूप्यमाणत्वाद्भटनिगलनशक्तमहाभटनिगलनमाभिप्यते । रणान्धौ तैमिगिलगिल्यं भजतो यौ तौ । तथा रात्रिचरारिरात्रिंचरराजावप्युक्तविशेषणोपेतौ मिथ उष्णंकरणायाभूताम् । यावप्यब्धिमिगिलगिल्यभाजौ तिमिगिलगिलौ महामत्स्यौ स्यांतांतावपि मिथ उष्णंकरणाय भवतः ॥ तैर्थकरे तैर्थकरान्तरे वा कथानकेप्यश्रुतपूर्वयुद्धे । भूधेनुभव्यापरांज रात्रिमन्यं दिनं चक्रतुरायुधैस्तौ ॥ ८९ ॥
८९. हे धेनुश्चासौ भज्या च धेनुभव्या भूरेव रवपयोदोहहेतुत्वाद्धेनुभव्या तत्र वृषराज वल्लभत्वादृषभश्रेष्ठ तौ कुमारलाटावायुधैः कृत्वा दिनं रात्रिंमन्यं चक्रतुः । क । अश्रुतपूर्वयुद्धे भूतपूर्वत्वेनाश्रुतपूर्व याद्धं तस्मिन्निरुपमे युद्धे । काश्रुतपूर्वमित्याह । कथानकेपि । आस्तां सांप्रतमित्यपेरर्थः । किंभूते कथानके । तैथंकरे । तीर्थकरो भगवा. नहस्तदुपलक्षितः कालोप्युपचारात्तीर्थकरस्तत्र भवे विद्यमानतीर्थकरकालभवे भरतबाहुबलिकथादौ। तैर्थकरान्तरे वा। तीर्थकरान्तरालकालभवे वा रामायणादिकथायाम् । कचित् 'अश्रुतपूर्वबुद्धे' इति पाठस्तदा तैर्थकरे तैर्थकरान्तरे वा कथानकेपि सर्वोत्तमत्वेन न श्रुतपूर्वा घुद्धियस्य तस्य राज्ञः संबोधनम् ॥
१ सी
रात्रि
१बी निगिल'. २ ए सी हाप्यम'. ३ ए सी मिव . ४ ए सी त्वेमाश्रु'. ५ डी 'त्यर्थः ।. ६ ए सी स्तनुप' ७ सी तीर्थक. ८ए सी °मायिणा.