________________
४९८
व्याश्रयमहाकाव्ये
[ मूलराजः]
सन्विति स्वभटानां नष्टप्रनष्टप्रहतत्वं स्वभुजबलावलेपेनाङ्गीकुर्वन्नित्यर्थः । कीदृशम् । लोकंपृणमपि कान्ततादिगुणैर्जगदाहादकमपि । अपिविरोधे । अनभ्याशमित्यमनाशं दूरमित्यं गन्तव्यं यस्मात्तम् । अनभ्याशेनेत्यं दूरेण प्राप्यमिति वा । तदातिरौद्रत्वादरात्परिहर्तव्यमित्यर्थः ।। तमात्मलोकंमिणमात्मलोकप्रीणः कुमारोपि रुचाग्निमिन्धः । मत्स्यंगिलो मत्स्यमिवारिधानोघभ्रोष्ट्रमिन्धस्तरसाभ्यधावत् ।।८७॥
८७. कुमारोप्यात्मलोकंप्रिणं स्वप्रजाहादकं तं लाटं तरसा वेगे. नाभ्यधावत्संमुखं धावितः । कीडक्सन् । रुचा तेजसाग्निमिन्धोग्निरिवेन्धो दीप्यमानोत एवारय एवं धाना उपचारादर्जनार्था येवास्तेषामोघे भ्राष्ट्रमिन्धे प्रज्वलयति भ्राष्ट्रमिन्धो भ्राष्ट्राजीवी यथा भ्रोष्ट्राजीवी धाना अग्निना पचत्येवमरीस्तेजसा पचन्नत एवात्मलोकंप्रीणः । यथा मत्स्यंगिलो मत्स्यं गिलनेच्छयाभिधावति ।। रणाधितैमिगिलगिल्यभाजौ स्वपक्षभद्रकरणावभूताम् । अन्योन्यमुष्णकरणाय रात्रिचरारिरात्रिचरराड्डुलौ तौ ॥ ८८ ॥
८८.स्वपक्षभद्रंकरणो स्वकीयवर्गस्य रक्षया क्षेमंकरौ सौ कुमारला. टावन्योन्यमुष्णकरणायोष्णस्य संतापस्योत्पादनायाभूताम् । किंभूती सन्तौ । रात्रिचरारिरात्रिंचरराइलो रामरावणतुल्यशक्ती । अत एव
१ सी डी स्थिरिवा'. २५ सी डी भ्राष्टमि'. ३ ए सी 'करुणा'. ४ ए सी करुणा'.
१बी ति सुभ. २ सी ववेना. ३ ए लेना . ४ ए सी डी 'दिगुंगै. ५ बी भ्यासमि. ६ए सी डी भ्यासिं दू. बी भ्यासंदू'. ७ ए सी डी 'तम् । अभ्या. ८ वी व प्रधा.९ ए सी डी पर। . १० ए सी यथास्ते'. १५ डी भ्राष्ट्रा , १२ ए सी डी घाटाजी. १३ ए सी करुणा.