________________
[१० ३.२.१०९.]
षष्ठः सर्गः ।
४९७
अप्रतीपमन्याबलं मन्यतया । अप्रतीपानप्रतिकूलानात्मनो मन्यन्तेप्रतीपमन्या येबलंमन्या निःसत्त्वादवली: स्त्रिय आत्मनो मन्यमानास्तेषां भावेन ॥
अरुंतुदास्त्रैः सृजतीह दोषामन्यं दिनं त्वत्तनयेयते स्म । गीर्मन्यकैः कैरपि दण्डसत्यं कारोगदंकारनिभे स्वपुत्राः ॥ ८५ ॥
८५. अगदंकारनिभे वैद्य इव सकलजगद्धित इत्यर्थः । इह त्वत्तनयेरुंतुदात्रैर्मर्माविच्छस्त्रैः कृत्वा दिनं दोषामन्यं रवेराच्छादित - त्वेनान्धकारितत्वाद्वात्रिमात्मानं मन्यमानं सृजति कुर्वति सति कैरपि नृपैः स्वपुत्रा दण्डसत्यंकारो दण्डे करविषये सत्यंकारोयते स्म । यतः सुप्रतिष्ठवाक्तया गिरं वाग्देवीमात्मानं मन्यन्ते गीर्मन्याः कुत्सिता गीर्मन्यो गीर्मन्यकास्तैर्लोकमध्ये कुत्सितवाक्प्रतिष्ठमात्मानं मन्यमानैः । ते हि लोके कुत्सितवाक्प्रतिष्ठमात्मानं मन्यन्त इति तव दण्डं दा स्याम इति स्ववाक्प्रतीत्यर्थं त्वत्पुत्रे स्वपुत्रानेव सत्यंकारं ददुरित्यर्थः ॥ नष्टप्रनष्टप्रहतेषु सोस्तुंकारोतिमध्यंदिनसूर्यतेजाः ।
लाटोथ लोकं पृणमप्यनभ्यो शमित्यैमेत्याह्वयतात्मजं ते ॥ ८६ ॥
८६. अथातिमध्यंदिनसूर्यतेजा अवितेजस्वित्वात्प्रहरद्वयस्थ सूर्यमतिक्रान्त: स लार्टस्त आत्मजमेत्यागत्याह्वयत सस्पर्धमाकारयत् । कीदृक्सन् । नष्टुप्रनष्टप्रहतेषु स्वभटेष्वस्तुंकारः । अस्त्विति निपातोभ्युपगमे । अस्तु करोति कर्मण्यण् । नष्टप्रनष्टप्रहताश्चेन्नष्टप्रनष्टप्रहता:
१
१ ए सी डी कंपण २ ए सी 'भ्यासमि° ३ डी 'त्यमित्या.
१ डी लाः श्रिय° २ ए सी दिन्यं दो° ३ ए सी 'वेत्राच्छा. ४ ए सी बाग्वे •
•
•
•
•
दीमा ५ ए सी न्या गैर्म ६ ए सी 'रिसकवा बी 'त्सितं वा ७ ए सी डी ८ ए सी 'टस्तेन मा डी 'टस्ते तव मा
प्रसिद्धमा
९ सी मेणान् ।
६३