________________
[है. ३.२.७८.] षष्ठः सर्गः।
४८५ प्रहाराकरणेन रुधिरायालेपाभावानितरां दीप्तानि निरुजि निर्भङ्गानि यान्यस्त्राणि तानि भजन्ति ये ते । तथा नोक्लेदवन्तो रणत्वरितपलायनोत्थश्रमातिरेकात्स्खेदवन्तस्तथा प्रहारै रहिताः ॥
स नः प्रसादोपतिहाररोध प्रासादकक्षासु येतां मुधैषाम् । यनारकान्धीतमसं प्रवेणुमपप्रतीहारमिदं प्रनष्टम् ।। ६८॥
६८. अतिमान्यत्वान्नास्ति प्रतिहारैत्रिभी रोधो निवारणं यत्र तद्यथा स्यादेवं प्रासादकक्षासु सोधप्रकोष्ठेषु यतां गच्छतामेषां नृपाणां स महत्त्वेन प्रसिद्धो नोस्माकं प्रसादो देशदानाद्यनुग्रहो मुधा निष्फलम् । यद्यस्माद्धेतोरेषामेतत्कर्तृकमिदं प्रत्यक्षं प्रनष्टं पलायनमपप्रतीहारमपगतकाष्टिकं यथा स्यादेवं नारकान्धातमसं नरकस्य म. हान्धकारं प्रवेष्टुमभूत् । रणे हि नष्टा नरकं यान्तीति स्मृतिः ॥
एषोनिकाशो नरकोथ वान्धतमस्यनीकाशभयं परावत् । एतैरधीकण्ठ इव द्विषन्दक्षिणापथज्ञाय्यधिकण्ठजीवैः ॥ ६९ ॥
६९. अथ वैति राज्ञां नरकान्तरोपदर्शनगर्भ पक्षान्तरे । अथ या यत्पराच्छनोरन्धतमसं महामूढतात्रास्तीत्यन्धतमसि । अनीकाशभयमतिप्रकर्षप्राप्तत्वेन निरुपमं भयम् । एष एवानिकाशो निरुपमो नरकः । प्रस्तुतार्थेन योजनायैषां राज्ञां भझ्या भयमाह । एतैर्नृपैरधिकण्ठा महाभयेन कण्ठमधिगता जीवाः प्राणा येषां तैस्तथा सद्धिद्विषन् १९ सी यतामु. २ ए सी धाएत'. ३ ए सी डी 'नत्यम् ॥ १ए सी डी निमगा . २ डी यनत्र. ३ ए सी नोत्र. ४ बी के प्रासा. ५५ सी 'नाधुनु. ६ ए सी डी नित्यं प. ७ सी देव ना. ८ ए सी यातीति. ९ ए सी वेदिति. १० सी गर्भप. ११ ए सी य . १२ ए सी "तेनृपै०. १३ ए सी द्विदिष'