________________
४६२
ज्याश्रयमहाकाव्ये
[चामुण्डराजः]
न्दस्य मृगस्य मिश्रस्य वा हस्तिनोयं पुत्र इत्यर्थ बुभुत्सुर्जिज्ञासुरत एव तं द्विरदं दृशा दिशन्कीदृग्गजोयमिति कुमारं ज्ञापयन् । ततोमुष्य प्रख्यातस्य मूलराजस्य पितुरपत्यं नडाबायनणि [६.१.५३.] आमुष्यायणः सोपि कुमारोपि प्रावलिः सन्नत्वैवं वक्ष्यमाणमूचे ॥
आमुज्यपुत्रिकाम् । मामुप्यायणः । अत्र "अदसः" [३३] इत्यादिना पायलुप्॥
तदेवाह । यथा शुनःपूर्वकशेपपुच्छलाङ्कलमुख्यैर्गजलक्ष्म बुड्वा । वाचस्पतीयं जगदे ममादेवानांप्रिय षगजस्तथायः ॥ २९ ॥ ___२९. अदेवानांपियैः पण्डितैः शुन इति पूर्व येषां ते शुन:पूर्वका अभिधानाभिधेययोरभेदोपचारादभिधेयाविशेषणत्वे ये शेपपुच्छलाङ्गलास्ते। वथा शुनः शेपमिव शेपमस्येत्यादिविग्रहे शुनःशेपशुनःपुच्छशुनोलाडूलाख्या मुनगस्तदायैर्मुनिभिर्वाचस्पतीयं बृहस्पतेरिदं गजलक्ष्म गजलक्षणप्रतिपादकं शास्त्रं बुद्धा गुरूपदेशेन ज्ञात्वा यथा ममाप्रतो जगदे व्याख्यातं तथा ज्ञायत एष गजो नार्यो न पूज्यो वाचस्पतीयगजलक्ष्मशास्त्रोक्तलक्षणानुसारेण न प्रशस्य इत्यर्थः ।
अथास्यानीतामेवाष्टवृत्त्याह । ईदृग्दिवोदासनुतस्य वास्तोष्पतेरपीभो हि दिवस्पतित्वम् । हरेत होतुःमुतहोतुरन्तेवास्युद्यताशीः वपि दीर्घहस्तः ॥ ३०॥
३०. ईदृगिभो दिवोदासनुतस्य दिवोदासर्देवविशेषैः स्तुतस्य वा१सी दि ति. २ बी स्युचता . १ ए सी पाणः ।. २ सी शुनपू. ३ ए डी 'वे ते ये ४ एसी स्पदेते. ५वी दम ल°. सी म नज'. ६ ए सी दासिदेवविशैः स्त.