SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४५७ [है० ३.२.२५.] षष्ठः सर्गः । तोयेशयं तोयशयायमीशान्तेवासिनं वा विनयान्तवासी । त्वां मन्यते यो वनवासभर्ता स्वर्ण वनेवासकरोत्र तस्य ॥ २० ॥ ___२०. हे राजन् यो वनवासभर्ता वासयति भधि वासो बने वासो वनवासो देशभेदस्तस्य भर्ता विनयान्तवासी विनयेन प्रणामादिना शिष्य इव संस्त्वां मन्यते । कमिव तोयेशयं विष्णुमिर्व तोयशयाम्यं वासुदेवाप्रजं बलभद्रमिवेशान्तेवासिनं वा परशुराममिव था । तस्य राक्ष: संबन्ध्यत्र प्रत्यक्षदेशे स्वर्णं वनेवासकरो धनवासदेशस्योपभोगदण्डोस्ति । वनवासदेशे हि स्वर्ण बहु स्यात् । अन्जान्यसायाशयानि वर्षेजसेवयातानि शरेजदेवात् । स वर्षजे दण्ड इमान्यदात्तैप्सुना राजा शरजाचलस्य ॥२१॥ २१. हे अप्सुजाक्ष कमललोचन स प्रसिद्धः शरजाचलस्य शरे जातः शरजः स्कन्दस्तस्य योचलो देवगिरिस्तस्य राजेमानि प्रत्यक्षं प्राभृतीकृतान्यजानि वर्षजे सांवत्सरिके दण्डे ते तुभ्यमदात् । किंभूतानि । वर्षेजसेवया वर्षे जाता या सेवा तया शरेजदेवात्स्कन्दादाप्तान्यत एव न सायाहे प्रदोषे शेरवे संकुचन्त्यसायाशयानि निश्यपि विकखराणि ॥ सरोजवासावरजो महाकालिकावरेजच स पथरागान् । मेषीदनं सारसिज-नु कोल्लापुरेश्वरस्तेरिमनोजशंभोः ॥ २२॥ २२. सरोजे वासो यस्याः सा सरोजवासा लक्ष्मीस्तस्मा बरः प्र१ ए सी ते यो व. २५ मात्रदा'. सी 'मादानदा'. १ सी न्यसे । क. २ डी 4 वा तो'. ३ बी भिवे'. ४ डी स...३.. ५ सी रेजादे'.६५ सी कस्कर'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy