________________
[ है० ३.२.१६. ]
षष्ठः सर्गः ।
संध्यां नु पूर्वाह्णतरे नतो पूर्वाह्णेतरां योर्चति पादुके ते । ज्योत्स्नाश्रियं पाण्डुपतेरमी पूर्वाह्वेतमां विभ्रति तस्य हाराः ॥ १८ ॥
१८. यः पूर्वाह्वतरे प्रभाते पूर्वाह्वेतरां प्रदोषे च यथा संध्यां प्रात:संध्यां प्रदोषसंध्यां च नतः सन्नचेत्येवं ते पादुके अर्चति तस्य पाण्डुपतेः पाण्डुदेशाधिपस्यामी प्रत्यक्षं प्राभृतीकृता होराः पूर्वाहृतमां प्रभातेष्यतिकान्तिमत्त्वाज्ज्योत्स्नाश्रियं चन्द्रिकालक्ष्मीं विभ्रति । एतेन चन्द्रादप्येषां कान्तिमत्तोता । चन्द्रो हि प्रातर्न चन्द्रिकाश्रियं विभर्ति ॥ रत्नानि पूर्वाह्णतमार्कभांसिस सिन्धुराट् प्रेपितवानमूनि । पूर्वाह्णकालेत्ति न नाप्यपूर्वाह्णेकाल आचाङ्गुलिकस्त्वया यः ॥ १९ ॥
४५५
I
1
१९. हे राजन्स सिन्धुराडब्धिस्वामी राजामूनि प्रत्यक्षोणि रत्नानि प्राभृतं प्रेषितवान् । कोहंशि । पूर्वाहृतमे । प्राभातिक इत्यर्थः । योर्कस्तस्येवातिरक्ताः प्रवर्धमानाश्च भासो येषां तानि । यस्त्वयात्ताङ्गुलिको वेलायतीकृतः सन्न पूर्वाह्नकाले दिनस्य प्रथमप्रहरद्वयेत्ति नाप्यपूर्वाइकाले दिनस्य पश्चिमप्रहरद्वयेति । निशायां भुङ्क इत्यर्थः । बेलायत्तो हि स्वामिन्यदृष्टे निशायामेवात्तीति स्थितिः ॥
I
आत्मनाविंशः ः । इत्यत्र “आत्मनः पूरणे" [ १४ ] इति टोलुप् ॥
मानसाज्ञायिकः । आत्मनाशयी । इत्यत्र “मनसश्च" [१५] इत्यादिनालुप् ॥
मनसादेव्या । इत्यन्न “नाम्नि” [ १६ ] इत्यलुप् ॥
१ सी के ज्यो. २ ए सी सिन्धरा',
१ बी अर्चिति. २ ए बी सी डी हारा पू. ३ ए सी डी 'क्षानि र ४ बी प्रथमप्र . ५ ए सी डी येति नि
६ ए सी 'ज्ञातीयात्य.
•