________________
४५४
व्याश्रयमहाकाव्ये
१६. अत्रान्तरेस्मिन्प्रस्तावे । वेत्री | नाट्ये तु
1
पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । विनीतत्वात्तद्रूपो हस्ते वन्धो यस्य स तथा सन् । करौ योजयित्वेत्यर्थः । नृपमूचे । कीदृक् । भोगित्वान्मस्तके माल्यं पुष्पमाला यस्य सः । तथा सदा विज्ञापककार्यनिवेदने व्यापृतत्वादर्थे विज्ञापककौर्ये प्रसक्त: शौण्ड इव मद्यप इवार्थान्मद्यपानैर्थशौण्डः । यदूचे तदाह । अन् स्वशीर्षे कामो यस्य तेन जीवितुमिच्छता सताङ्गभङ्गदेशस्वामिनाद्यायं प्रत्यक्षं प्राभृतीकृतो रथस्ते त्वदर्थं प्रैषि । कीदृक् । शोभनश्चक्रे बन्धो रत्नखचितस्वर्णपट्टादिना रथाङ्गे बन्धनं यस्य सः । उपलक्षणत्वादशेषरथगुणोपेत इत्यर्थः ॥
रा
Ε
त्वयेभवन्धो नृपतिः सहस्तेबन्धः कृतो यः कृतचक्रबन्धः । तस्य तिपूर्वाहृतनांशुमन्पूर्वाद्धेतना जाग्रकरो गजोयम् ॥ १७ ॥
[ चामुण्डराजः ]
१७. हे अतिपूर्वाद्वर्तनांशुमन्महाप्रतापितया पूर्वाह्लेभवं सूर्यमतिक्रान्त य इभबन्धो बघ्नाति अचि बन्ध इभानां बन्धो बन्धको विन्ध्याद्रिस्वामी नृपतिर्बलिष्ठत्वात्कृतश्चक्रे त्वदीयसैन्ये वन्धो बन्धनं येन । यद्वा । कृतश्चक्रे सैन्ये बन्धो यस्य स तथा सन्सेह हस्ते बन्धेन सहस्तेबन्धस्त्वया कृत: । जित्वा हस्तयोर्बद्ध इत्यर्थः । तस्यायं प्रत्यक्षो गजस्त्वदथं प्राभृतमस्ति । कीदृक् । पूर्वाह्णेतना जाग्रकरः प्रशस्यलक्षणत्वात्प्राभातिकपद्मवद्विकसितरक्तहस्ताग्रः । उपलक्षणत्वाच्छुभलक्षणोपेतसर्वाङ्गः ॥
१ बी संश्रेषा.. २ सी ... प्र०. ३ ए कार्यप्र'. ४ बी 'थें शौ. ५ सी यं प्रा६ ए सी डी दिर° ७ ए सी हे इति° ८ ए बी सी डी 'तमांशु ९ सी सह स्ते.