________________
[ है० ३.२.१३.]
षष्ठः सर्गः।
४५३
किं खेचरो गोषुचरो नु विष्णुः शल्योथवा मद्रचरो हृदिस्पृक् । सोतय॑ताभस्मनिमीढकर्मा मध्येगुरूनन्तगुरूंश्चै धिन्वन् ॥ १४ ॥
१४. स कुमारोतयंत । कथमित्याह । किमसौ खेचरो विद्याधरो देवो वा । नु किं वा गोपालावस्थायां गोषु चरति गोषुचरो विष्णुरथवा मद्रेषु चरति मद्रचरो मद्रदेशस्वामी शल्य इति । यतः कीहक् । हृदयं स्पृशति हृदिस्पृरहृदयज्ञ इत्यर्थः । तथा मध्ये गुरून् मध्ये मध्यवयसि वर्तमानान् गुरून् पूज्यानन्तगुरूंश्चान्त्यवयसि वर्तमानान् गुरूंश्च धिन्वन्विनयपूजादिना प्रीणयन् । तथा भस्मनि मीढं सेचनं भस्मनिमीढं तदिव कर्म क्रिया यस्य स भस्म निमीढकर्मा न तथा सफलकर्मा । खेचरादयो हि हृदिस्पृक्तादिगुणान्विताः ।।
नृणामनन्तेगुरुरेकदाथ सिंहो नु सोमध्यगुरुः सभायाम् । नृपं प्रणम्योरसिलोमकण्ठे कालोपमं मूर्धशिखो न्यषीदत्॥१५॥
१५. अथैकदा सिंहो नु मृगेन्द्र इवामध्यगुरुः कृशोदरो नृणामनन्तेगुरुः प्रथमपूज्यो मूर्धनि शिखा शिखण्डिका यस्य स मूर्धशिखः कुमारः सभायां न्यषीदत् । किं कृत्वा । नृपं प्रणम्य । किंभूतम् । महापुरुषत्वादुरसि लोमानि यस्य स तों यः कण्ठेकालोपम आश्रिवानां सर्वकामपूरकत्वात्सोमनाथतुल्यस्तम् ।।
अत्रान्तरे मस्तकमाल्य ऊचे वेश्यर्थशौण्डोञ्जलिहस्तबन्धः । स्वशीर्पकामेण रथः सुचक्रेबन्धोद्य ते प्रैष्ययमङ्गभा ॥१६॥
१ए सी
प्णुः शिल्यो. २ वी श्च धेन्व'. ३ ए सी हो न सो'.
१ ए सी १४ कुमा'. २ बी कर्माः खे'. ३ बी स्पृक्त्वादि'.४ बीया सन् यः.