________________
व्याश्रयमहाकाव्ये
[ चामुण्डराजः ]
धातुर्नु शेषः स सहः परस्मैपदाय राज्ञातियुधिष्ठिरेण । अज्ञाय्यरण्येतिलवत्तदन्यस्त्वक्सारवच्चान्तरसार एव ॥ १२ ॥
४५२
१२. अतियुधिष्ठिरेण सत्यभाषित्वादिगुणैर्युधिष्ठिरमतिक्रान्तेन राज्ञा मूलराजेन स कुमारः परस्मायन्यस्मै शत्रुसंबन्धिने पदाय राज्यरूपाय स्थानाय सहः समर्थोज्ञायि । पूर्वोक्तसर्वनृपगुणोपेतत्वाच्छ्त्रुलक्ष्मीग्रहणसमर्थो ज्ञात इत्यर्थः । यथा शेष आत्मनेपदोपयुक्तादन्यो भूर्वादिधतुः परस्मैपदाय सर्वविभक्त्याद्यवचननवकशतृक्कसुप्रत्ययेभ्यः सहो ज्ञायते । तदन्यश्चामुण्डराजादपरस्त्वरण्येतिलवदरण्येतिलाख्यवनधान्यभेदवत्त्वक्सारवच्च वंशवच्चान्तर्मध्येसार एवाज्ञायि ।।
स कीर्तिमुक्तात्वचिसारंकः स्तूपेशाणदैर्दार्षदिमाषिकैश्च । स्म गीयते यूथपशुपदैश्व स्तम्बेरमौजाः खचराधिपश्रीः ॥ १३ ॥
१३. स कुमारः । स्तूपो गवादिराशि: । शाणः स्वर्णमाषचतुष्टयम् । स्तूपे स्तूपे शाणो देयः । वृत्तौ वीप्साया दानस्य चान्तर्भावः । स्तूपे - शाणः करभेदस्तं ददति ये तैर्दार्षदिमाषिकैश्च । दृषदि दृषदि माषः पञ्च1 -गुञ्जो देयो दृषदिमाषः करभेदस्तत्र नियुक्तैश्च । यूथं तिरश्चां जातम् । यूथे यूथे पशुर्देयो यूथपशुः करभेदस्तं प्रददति ये तैश्च करपीडाद्यभावेन हर्षाद्गीयते स्म । कीदृशः । स्तम्बेरमौजा गजबलः । तथा खचराधिपश्रीरिन्द्र तुल्यलक्ष्मीकः । तथा कीर्तिमुक्तात्वचिसारको यशोमुक्ताफलेष्वज्ञातवंशतुल्यः । वंशो हि मुक्तायोनिर्वर्ण्यते । यदुक्तम् ।
हस्तिमस्तदन्तौ तु दंष्ट्रा शुनवराहयोः ।
मेघो भुजङ्गमो वेणुर्मत्स्यो मौक्तिकयोनयः । इति ॥
१ ए बी सी 'रकस्तू २ ए सी 'दा".
१ ए सी डी ने रा° २ बी ग्यो भुवादि .