SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ [है. ३.२.१३.] षष्ठः सर्गः। ४५१. ब्राह्मणाञ्छसि । इति "ब्राह्मणाच्छंसी" [1] इत्यनेन निपात्यम् ।। भोजसाकृतम् । अासात्तः । सहसाङ्केत । भभसाकृत । तेमसाहतम् । तपसाकृत । इत्यत्र "भोजः" [१२] इत्यादिना टो न लुप् ॥ पुंसानुजायाम् । जर्नुषान्ध । इत्यत्र "पुंजनुष" [१३] इत्यादिगा टो न लुप्॥ स मानसाज्ञायिक आत्मनाज्ञाय्यासात्मनाविंश इवाङ्गभाभिः। प्रसन्नयापन्मनसाद्यदेव्यात्मनेपदं पुंखिह डिन्नु धातुः ॥११॥ ११. स कुमारः प्रसन्नया संतुष्टया मनसेत्याद्यं यस्याः सा या देवी सया मनसादेव्या सरस्वत्या कृत्वेह जगति पुस्सु(सु.) मध्य आत्मन आत्मार्थ पदं बुद्ध्यादिगुणोन्नतिरूपां पदवीमापत्प्राप । प्रतिभादिगुणैः सर्वनरेषूत्कृष्टोभूदित्यर्थः । शब्दश्लेषोपमामाह । डिन्नु धातुर्यथा कानुबन्धो धातुर्गाकादिरात्मनेपदं सर्वविभक्तीनां पराणि नव नवं वचनानि कानानशौ चाप्नोति । अत एवं सोङ्गभाभिः सर्वशास्त्रपरिज्ञानप्रकर्षोंदूताङ्गतेजोभिः कृत्वात्मनाविंश इव खेन कृत्वा विंशतः पूरण इव विशतिगुण इवेत्यर्थः । आस वभूव । कीहक्सन् । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी विद्वांस्तेन संस्कृतः सर्वविद्याध्यापनेनं कृतसंस्कारः। यद्वा । मनसाज्ञायिभिर्जयति दीव्यति चरति वा इकणि मानसाज्ञायिकोत एव चात्मना ज्ञातुं शीलमस्यात्मनाज्ञायी विषमशाखाद्यपि स्वयं सामस्त्येन जानन् । धातूनामनेकार्थत्वात्सत्तावृत्तेरसतेरासेत्ययं प्रयोग ईक्षामासेत्यादौ णवन्तानुप्रयोगप्रतिरूपकनिपातस्य वा ॥ १२ १बी च्छंसी". २ सी डी कृतम् । भ. ३ डी तप. ४ सीनुष्यन्ध ।। ५ सी स्मार्थप०. ६बी वच'. ७ ए सी व साग. ८बीश इव स्वेन कृत्वा विश. ९ सी न च कृ. १० ए सी स्यामनो ज्ञा. ११ सी वृत्तरा'. १२५ सी शामा . १३ ए सी पकानि. १४ ए सी डी °स्य च ॥.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy