________________
४५०
ख्याश्रयमहाकाव्ये
[चामुण्डराजः]
स ब्राह्मणाच्छंसिजनेन्तिकादागते हिमाद्रेस्तपसाकृतोर्जे । त्यक्तान्यकर्मा सहसाकृतोत्थोम्भसाकृता@भिमतान्यदत्त ॥९॥
९. ब्राह्मणाच्छंसिजने ऋत्विग्विशेषलोकविषये से कुमारोभिमतानि धनादीन्यदत्त । तदिच्छानुसारेणादादित्यर्थः । यतस्तपसा कृतास्तपश्चरणेन विहिता उर्जा व्योमगमनादयः शक्तयो यस्य तस्मिंस्तथा हिमाद्रेरन्तिकादागते । औदार्योत्थकीर्तिश्रवणाहूरदेशान्तरेभ्योपि चामुण्डराजसमीपमायात इत्यर्थः । कोडक्सन् । सहसाकृतोत्थः संभ्रमेण झटिति विहिताभ्युत्थानः । तथा त्यक्तान्यकर्मा मुक्तव्यापारान्तरः । तथाम्भसाकृतार्थो जेलेन विहितपादशौचाद्युपचारः॥ ने तेन किं चित्तमसाकृतं वौजसाकृतं वा विकृतं प्रजायाम् । पुंसानुजायां नु यदञ्जसात्तो दोपावलोके जनुषान्धभावः॥१०॥
१०. तेन कुमारेण प्रजायां लोकविषये पुंसानुजायां नु पुंसा कर. णेन पश्चाजातायामिव लघुभगिन्यामिवेत्यर्थः । किंचित्स्तोकमपि विकृतं विकारो न वा तमसाकृतमज्ञानेन कोपेन वा कृतं न वौजसाकृतं बलात्कारेण कृतम् । यद्यस्मात्तेन प्रजायां विषये पुंसानुजायामिव दोषावलोके जनुषान्धभाव आजन्मान्धत्वमञ्चसात्तः स्नेहेनाङ्गीकृतः । अथ च या प्रजापत्यं तस्यां स्नेहादोषावलोकनाभावेन न केनचित्किचिद्विकृतं तमसा वौजसा वा क्रियत इत्युक्तिः ॥
अन्तिकादागते । अत्र "असत्वे डसेः" [१०] इति से लुप् ॥
१ ए सी तोजे ।। २ सी न केचि'.
१५सी ने रुवि. २ सी स सकु. ३ सी दाते ।. ४ सी यान्त . ५५ सी डी जनेन. ६ सी 'कृता अ. ७ सी त्युक्ति ॥. ८ बी °से न लु.