________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
/
I
वर्षाशरन्मेघतुल्यम् । क सति ययौ । विधौ चन्द्रे । कीदृशे । अतिमघाश्ले पेश्लेषामघानक्षत्रातिक्रान्ते । अस्य च विशेषणस्याप्रावेशिकनक्षत्रातिक्रमस्योपलक्षणत्वात्पूर्व फल्गुन्या
अप्यप्रावेशिकत्वात्तामप्यतिक्रान्ते । उत्तरं फल्गुनीस्थ इत्यर्थः । उत्तरफल्गुनी हि स्थिरस्वभावत्वात्प्रावेशिकनक्षत्रम् । अश्लेषा क्रूरस्वभावत्वेन मघापूर्व फल्गुन्यौ चोप्रस्वभावत्वेनानिष्टफलत्वादप्रावेशिक्यः । यदुक्तं रत्नमालायाम् ।
शुभ: प्रवेशो मृदुभिर्ध्रुर्वैक्षैः क्षिप्रैश्वरैः स्यात्पुनरेव यात्रा | उप्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ उप्रादिभिर्भैः प्रवेशे नृपादिर्विनाशमेतीति संबन्ध: । अश्लेषामघापूर्वफल्गुनीरतिक्रान्ते चन्दौ मूलराजस्याष्टमो नवमश्चेन्दुरशुभोपयातीति हेतोश्चातिमघाश्लेष इति विशेषणं विधोः ॥
४४२
म । कृत्तिकारोहिणी ॥ ऋतु । प्रावृटुरत् । अत्र “भर्तु” [१६२] इत्यादिना भमृतुश्चानुपूर्वं प्राग्निपतेत् ॥ तुल्यस्वरमिति किम् । मघाश्लेषे । ग्रीष्मवसन्तयोः॥
बहुव्रीहौ । पञ्चप ॥ द्विगौ । अष्टशत्या ॥ द्वन्द्वे । द्वौ च दश च द्वादश । इत्यत्र “संख्या समासे” [१६३] इति संख्यानमनुपूर्व पूर्व निपतेत् ॥ शार्दूलविक्रीडितं छन्दः ॥
नवमः पादः समर्थितः ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिघानशब्दानुशासनव्यायवृत्तौ पञ्चमः सर्गः समर्थितः ॥
१ बी 'तिमेघा'. २ बी 'वफाल्गु
.बी फाल्गु ६ ए सी डी 'वक्षैः क्षि ९ बी तुपू. १० बी 'नामानु".
·
३ बी रफाल्गु".
७ बी 'दि विना
४ बी र फाल्गु ८ बी
फाल्गु .