________________
घ्याश्रयमहाकाव्ये
षष्ठः सर्गः।
अहम् ॥ यथावदाराधयतस्त्रिवर्ग चामुण्डराजोस्य सुतोथ जज्ञे । परस्परां वाकमला च तेजःसौम्ये च नूनं मिपती श्रिते यम् ॥१॥
१. अथानन्तरमस्य मूलराजस्य यथावद्यौचित्येन परस्परानाबा. भया । स्ववेलायामित्यर्थः । त्रिवर्ग धर्मार्थकामानाराधयत आसेवमानस्य सतश्चामुण्डराजः सुतो जज्ञ उत्पेदे । यं चामुण्डराजं वाक् सरस्वती च कमला च लक्ष्मीस्तेजः प्रतापः सोम इवाहादकत्वात्सोमः कान्तस्तवावः सौम्यं कान्तत्वम् । द्वन्दे। वे च धिते । नूनं शङ्के। परस्पराम् । स्पर्धमानः स कृष्णम् ।
मेरं स्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा। इत्यादाविव प्राप्येत्यध्याहारेण परस्परस्य व्याप्यत्वात्परस्परं कर्म परस्परेण सह वा परस्परार्थ वा परस्परस्मात्सकाशाद् गम्ययबपेक्षया "गम्ययपः" [२.२.७५] इति पञ्चम्यां परस्परमाश्रित्य वा परस्परस्य संबन्धिनो वा परस्परस्मिन्वा मिषती स्पर्धमाने । ये हि मियो मिषतस्ते मिथोभिभवेच्छयोत्कृष्टस्वामिनं श्रयेते। वाकर्मले तेजःसौम्ये च मियो विरुद्ध अमुं चाश्रिते इत्येवमाशा । सर्गेस्मिन्नुपजातिच्छन्दः ॥
१बी ती क.. २५ सी डी मानस. ३ ए सी डी वापर'. ४डीमप'. ५ वी मलते.