________________
४४०
व्याश्रयमहाकाव्ये
ते काष्ठखङ्गैः संस्पृश्य गीतैर्हास्यकरैः शिशून् । रक्षन्ति तेषां दातव्यं गुडं पक्वान्नमेव च ॥ २ ॥ एवं दण्डस्य स दोषः प्रशमं त्रजेत् । बालानां रक्षणं कार्यं तस्मात्तस्मिन्निशागमे ॥ ३ ॥
१
अस्मिंश्च पर्वणि सोमनाथस्यापि लोकाचार इति कृत्वा ग्रीष्मोतारणं विशेषपूजा च चतुर्वर्णलोकैः क्रियते ॥
दोलापर्व च चैत्रशुक्लचतुर्दश्युच्यते । यतोत्र शंभुगौरीसहितो महो - त्सवेन दोलामारुरोह । यदुक्तं भविष्योत्तरे | गौरी शंकरमाह ।
कौतुकं मे समुत्पन्नं पन्नगाभरण प्रभो ।
अन्दोलकं मम कृते कारयस्व स्वलंकृतम् ॥ १ ॥ त्वया सहान्दोलयेयं यथा चैत्रे त्रिलोचन । गौरीवचनं चारु श्रुत्वा गोवृषभध्वजः ॥ २ ॥ सँ दोलं कारयामास आहूय सुरवर्धकिम् । स्तम्भद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् ॥ ३ ॥
[ मूलराज: ]
सत्यं चैवोपरितनं श्रेष्ठं काष्ठमकल्पयत् । वासुकिं दण्डिकास्थाने बद्धा ध्वान्तायसप्रभम् ॥ ४॥
तर्फणासंचयं पीठं कृतवान्मणिमण्डितम् ।
तत्रारूढस्तु भगवान्सोमः सोमविभूषणः ॥ ५ ॥
१९
नन्दिरं दोलयामास पार्श्वस्यैः पार्षदैः सह । इति ॥
४ ए सी
७ सी सा
१ एसी 'रैः रिशू २ बी सी ढौढित. ३ ए सी दोषप्र लोकांचा. ५ सी चतु ६ ए सी र्दच्य°. डी 'दश्यामुच्य लोलं. डोस दोलां का. ८ सी फणं सं. ९ ए पीढं कृ. १० ए सी षण ॥. ११ प सी डी मन्दि