SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ [है. ३.१.१६१.] पञ्चमः सर्गः। सखिवर्जनं किम् । सुतसखे । सखिसुत ॥ एकमिति किम् । युगपदनेकस्य पूर्वनिपाते प्राप्त एकस्यैव यथा पूर्व निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम् । शवदुन्दुभिवीणाभिः। वीणादुन्दुभिशङ्खाः। वीणाशङ्खदुन्दुभीन् । विनायकस्कन्दगुरो पुण्यैः फाल्गुनचैत्रयोः । ब्राह्मणक्षत्रविद्रैः प्रेक्ष्यसे ग्रीष्मदोलयोः ॥ १४१॥ १४१. विनायकस्कन्दगुरो हे गणेशकार्तिकेययोः पित: फाल्गुनचैत्रयोर्ये प्रीष्मदोले प्रीष्मपर्वदोलापर्वणी तयोर्ब्राह्मणक्षेत्रविद्रैः क. र्तृभिः पुण्यैः कृत्वा त्वं प्रेक्ष्यसे । फाल्गुने पौर्णमासी प्रीष्मपर्वाच्यते । यतोत्र काष्ठखगव्यप्रकरैर्बालकैः शिशूनां महासन्तापकत्वेन ग्रीष्मतुल्यत्वादीष्मा दुण्ढाराक्षसीकृतोपद्रवा उत्तार्यन्ते। यदुक्तं भविष्योत्तरे । पुरा रंघुर्नाम राजासीत् । तस्य राज्ये वर्तमाने दुण्ढा नाम राक्षसी बभूव । सा बालानामुपद्रवं कुरुते। ततो विरागयुक्ताः सदुःखाः सर्वेपि पौरा नृपमूचुः । देव तव राज्येस्मद्वालानां महानुपद्रवो भवति । तत्रायस्व । ततो राजा गुरुं वशिष्ठं सप्रश्रयमुवाच । कोसावदृष्टो बालानामुपद्रवकारी । तच्छ्रुत्वा वशिष्ठ ऊचे । देव दुण्टेति नाम राक्षसी तप:प्रभावालव्धवरा बालेभ्योन्यैरवध्या । अतः सा बालान्पीडयति । वदद्य फाल्गुने पूर्णिमायाः । अस्या निशागमे पार्थ संरक्ष्याः शिशवो गृहे । गोमयेनोपसंलिप्ते सचतुष्के गृहाङ्गणे । आकारयेच्छिशून्प्रायः खगव्यप्रकरानरान् ॥१॥ १९ सी डी एवमि. २ ए सी न्दुभिरीन् .. ३ बी १४१ हे वि. ४ ए सी डी र्वणी. ५ ए सी क्षत्रेवि'. ६ ए सी गुनै पौ. ७सी व्ययम. ८ सी यंते । य. ९ सी रघूनाम. डी रघुनामा रा. १०बी वसिष्ठ'. ११ ए सी शिवावो.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy