________________
[हे. ३.१.१५६.] पश्चमः सर्गः।
४३५ सोस्युद्यतः पद्मनाभो नद्यतासिभिरावृतः । इन्दुमौलिं शूलपाणिं स्पृष्ट्वा नवेति तुष्टुवे ॥ १३३ ॥ १३३. स्पष्टः । किंतु । उद्यत ऊर्वीकृतोसियेन सोस्युद्यतः । प्रजापालकत्वात्पद्मनाभो नु विष्णुरिव । इन्दुमौलि सोमनाथलिङ्गं स्पृष्ट्वा हस्तेन संस्पृश्य ॥
उग्रतासिभिः अस्युचतः । अत्र "प्रहरणात्" [१५४] इति कान्तं वा प्राप्निपतेत् ॥
इन्दुमौलिम् । पद्मनाभः ॥ प्रहरणात् । शुलपाणिम् । अत्र "न सप्तमी" [१५५] इत्यादिना सप्तम्यन्तस्य न प्राग्निपातः ॥
यस्त्वां श्रीकण्ठ नौत्यातः कण्ठेगडुररुःशिराः ।
भवत्यगडुकण्ठः सोशिरस्यरुरपि क्षणात् ॥ १३४ ॥ १३४. श्रीकण्ठ हे शंभो गडुणं कण्ठे यस्य स कण्ठेगडुर्गण्ड. मालामहारोगान्वितस्तथारुव्रणं शिरस्यस्य सोरुःशिराश्च । उपलक्षणत्वादन्यैरपि रोगैर्युक्तश्च सन्नातॊ रोगपीडितो नरो यस्त्वां नौति स्तौति सक्षणादगडुकण्ठोशिरस्यहरपि । अपिः समुच्चये । उपलक्षणत्वादन्यरोगविमुक्तश्च भवति ॥
कण्ठेगडुः गहुकण्ठः । शिरस्यरुः अरुर्शिराः । अत्र "गड्दादिभ्यः" [१५६] इति सप्तम्यन्तं वा प्रानिपतेत् ॥
१ सी पता.
भो वि.
१५ बी सी डी ऊद्धीकृ. २ सी धवः । प्र. ३ डी ४ए सी डी नाभम् । प्र. ५ सी कन्ते य. ६ बी शिरोः । .