SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ १२६ व्याश्रयमहाकाव्ये [मूलराजा सेना । अश्वरथम् ॥ क्षुद्रजन्तु । देशमशकम् । भत्र "सेना" [१३०] इत्यादिना द्वन्द्व एकार्थः॥ बदरामलकं धानाशष्कुलीवाशितुं परान् । वर्षतीपून्दिनक्षत्रविद्रास्तत्र तत्रमुः ॥ ११६ ॥ ११६. द्विजक्षत्रविद्रास्तत्रसुः । विश्वैश्यः । क सति । तत्र लक्षे । कीशि । इपून्वर्पति । किं कर्तुम् । परान्बदरामलकमिव । ईवोत्रापि योज्यः । बदरीफैलामलकीफलानीव । तथा धानाशष्कुलीव । धानौ भृष्टा यवाः । शष्कुली प्रसिद्धा । खाद्यभेदः । द्वन्दे तदिवं चाशितुं भक्षयितुमनायासेन विनाशयितुमिति यावत् ॥ द्विजक्षत्रियविद्रं त्राताप्यध्वनयद्धनुः । जयाय भेरीशङ्ख च सद्यो भैरिकशालिकम् ॥ ११७ ॥ ११७. द्विजक्षत्रियविद्रं त्रातापि रक्षितापि मूलराजोपि सद्यस्तरक्षणादेव जयाय धनुरध्वनयज्याकर्षणेनावादयत् । तथा मूलराजसकभैरिकशाजिक भेरीवादनशिल्पाः शङ्खवादनशिल्पाश्च जयाय विज. यसूचकं भेरीशङ्खमध्वनयत् ।। ज्यानादैर्धनुरस्योच्चैः शिरोग्रीवमधुन्वतः । प्रत्यष्ठात्कठकालापमुदगाच्चेत्युवाचं नु ॥ ११८ ॥ ११८. अस्य मूलराजस्य धनुर्धरोत्तमत्वेन लक्षबद्धदृष्टित्वाच्छिरो १५ सी ग्वासितुं. २ एच नुः ।। १बी इतोत्रा'. १पसी °फलम. ३ बी ना भ्रष्टा'. ४ ए व चांशतुं शक्षसी व वशिक्ष. ५ ए सी रक्षता. ६ ए सी 'लसज. डी ल. सत्क.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy