________________
[है.३.१.१३३.] पश्चमः सर्गः।
४२५ माह । धवाश्वकान्भङ्गानिलः किं तिलमाषे स्खलेत् । तदिदमत्राकूतम् । यो धवाश्वकर्णवत्सारान् ग्राहार्यादीन्भता सोनिलमहाबलो महोर्दण्डस्तिलमाषतुच्छे त्वयि किं कदाचित्स्खलेत् ॥
ऋश्यैणानां समैर धैर्यदृश्यैणं नु नझ्यसि ।
याहीदानी मा तित्तिरिकपिञ्जलमिवारंट ॥ ११४ ॥ ११४. ऋश्यैणानी भालूकानां मृगभेदानां च समैः शीघ्रत्वादिना तुल्यैरश्वैः कृत्वा ऋश्यैणं नु श्यैणा इव यदि त्वं नेङ्यसि तदेदानीमेव याहि । यदि पश्चादपि रणे नङ्ग्यसि तदा प्रथममेव नश्येत्यर्थः । तित्तिरिकपिञ्जलमिव । तित्तिरिः प्रसिद्धः । कपिञ्जलो गौरतित्तिरिः । बहुवचनसमाहारे। तदिव मारट स्वविकत्थनेन मा पूत्कुरु ॥
इत्युक्तः सोनहीचापं मन्वानोश्वरथं श्रितान् । द्विषो न दंशमशकं न तित्तिरिकपिञ्जलान् ॥ ११५॥ ११५. इत्येवंप्रकारेणोक्तः स लक्षश्चापमग्रहीत् । कीहक्सन् । अश्वरथं श्रितानश्वानथांश्वारूढान्द्विषो दंशमशकं दंशा मशकाश्च क्षुद्रजन्तुभेदाः प्रसिद्धा असारत्वात्ततुल्यानपि न मन्वानो न मन्यमानस्तथा वित्तिरिकपिञ्जलांस्तित्तिरिकपिजलतुल्यानपि न मन्वानश्च ।। __ तरु। धवाश्वकर्णम् धवाश्वकर्णान् ॥ तृण । कुशकाशम् कुशकाशाः ॥ धान्य । तिलमाषे तिलमाषान् ॥ मृग । ऋश्यणम् ऋश्यैणानाम् ॥ पक्षिन् । तित्तिरिकपिजलम् तित्तिरिकपिजलान् । अत्र "तरुतृण" [१३३] इत्यादिना इन्द्र एकार्थो वा ॥ १ए रय ॥. २ बी तिरक'.
१ ए सी लवहा . डी लवन्महा. २ सी 'तु त्व'. ३ वी चिखले. ४ बी 'नां भलु. ५ ए सी डी नहसि. ६ सी रुते ॥. ७ ए सी रत्वोत्त'. ८ सी तुल्योन', ९बी तिरक. १० सी श्यैणा. ११ वी त्तिरक.