________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
अश्ववडवम् अश्ववडवौ । पूर्वापरं पूर्वापरे । अधरोत्तरम् अधरोत्तरयोः । इत्यत्र “अश्ववडव” [१३१] इत्यादिना वैकार्थता ॥ अश्ववडवेति निर्देशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते
पशु । गोमहिषेण गोमहिषौ ॥ व्यञ्जन । दधिघृतम् दधिघृते । अत्र " पशु " [१३२] इत्यादिना द्वन्द्व एकार्थो वा ॥
४२४
कुशंकाशमेसो पापः कुशकाशा इमे नृपाः ।
सारो धवाश्वकर्ण नु त्वं मुमोचयिषन्नमुम् ॥ ११२ ॥
११२. पापोसौ प्राहारिः । कुशकाशं कुशा दर्भाः काशा इषीकाख्यास्तृणभेदा द्वन्द्वे । कुशकाशमिवासार इत्यर्थः । तथेमे ग्राहारिसत्का नृपाः कुशकाशाः । प्राहारिमाचनेशकत्वादसारा इत्यर्थः । एवं च यदि पैरममुं प्राहारिं मुमोचथिषन्मोचयितुमिच्छंस्त्वमेव धवाश्वकर्णं नु । धवाश्वकर्णाख्यवृक्षभेदा इव सारो बलिष्ठः । काकुव्याख्ययोपहासगर्भवाक्यार्थत्वादयमत्र तात्पर्यार्थः । न हि प्राहारिस्तन्नृपाश्चासमर्था आसन्परं प्राहारिः सर्वेषु नृपेषु पश्यत्सु मया बद्धोतस्त्वमेकोमुं मुमोचयिषुः कियन्मात्र इति ।।
と
युध्यसे चेदसौ दोस्त्वां तिलमाषान्नु पेक्ष्यति ।
भङ्का धवाश्वकर्णान्कि तिलमाषेनिलः स्खलेत् ॥ ११३ ॥
११३. चेद्यदि युध्यसे त्वं तदासौ मामकीनो दोस्तिलमापान्नु तिळमाषानिवासारत्वाडीलया त्वां पेक्ष्यति संचूर्णयिष्यति । दृष्टान्त
१ सी शम. २ ए सी 'मसोपा.
१ ए सी डी ते गो २ ए सी शनिवा ३ ए सी 'ममुप्रा . ४ सी हिमा.