________________
[है.१.१.१२९.) पचमः सर्गः।
४२१ तत्सितम् सितानि । इत्या "क्लीवम्" [१२८] इत्यादिना की शिष्यते कमेकार्य वा ॥
मूल पुष्यपुनर्वस्वोश्चन्द्रस्तेधोद्रणे मयि ।
यन्मे ग्राहारेश्च तिष्यपुनर्वस्वोर्नु नान्तरम् ॥ १०७ ॥ १०७. हे मूल मूलराज “ते लुग्वा" [३.२.१०८] इस्युत्तरपदलोपः । अनेन च संबोधनेनास्य मलनक्षत्रजातत्वमुक्तम् । मूलजातानामेव हि प्रायेण नामादौ मूलशब्दः स्यात् । मय्युद्रणे रणायोद्यतेद्य ते तव चन्द्रो वर्तते । क । पुण्यपुनर्वस्वोः । अत्र पुनर्वस्वन्त्यैकपाद पुनर्वसुशब्दः । पुण्यश्च पुनर्वसू च पुष्यपुनर्वसू तयोः । उपश्लेषसप्तमीयम् । पुष्यपुनमुभ्यां संयुक्त इत्यर्थः । अष्टमश्चन्द्र इत्यर्थः । मूलपूर्वाषाढोत्तराषाढापाद एको धनुरिति वचनान्मूलजातस्य राझो धन राशिः । पुनर्वसुपाद ऐकः पुष्याश्लेषाश्च कर्क इत्युक्तः पुनर्वस्वन्त्यैकपादपुष्याश्लेषायुकश्चन्द्रः कर्कराशिस्थो धनराशेश्च कोष्टम इति तत्स्थश्चन्द्रोप्यष्टमः । अष्टमे प्राणसंदेह इत्युक्तेश्च तवाद्य प्राणसंदेह इति तात्पर्यम् । स्वस्योद्रणत्वे हेतुमाह । यदित्यादि । यद्येस्माद्धेतोमें प्राहारेश्च नान्तरं न विशेषा मिथोन्तरङ्गमैत्र्यावयोरेक एवात्मेत्यर्थः । अत्रैव शब्दश्लेषोपमामाह । तिष्यपुनर्वखोर्नु यथा पुष्यपुनर्वसुनक्षत्रयोर्व्यवधायकान्यनक्षत्राभावेनान्वरं व्यवधानं न स्यात् ।।
पुष्यपुनर्वखोः । तिष्यपुनर्वलोः । इत्यत्र "पुष्या" [२९] इत्यादिना पुननुर्थ एकार्थः स्यात् ॥ १ ए सी डी स्वोच्चन्द्र १एसी च पुण्यपुनर्वस्त'. २ बीर्थः । म. ३ ए सीरी एकपु. ४सी कार्को'. ५सी अममाडे. ६एसी पो मियोन्तरं न विमो मि. .बी समर्ष.