________________
११८ व्याश्रयमहाकाव्ये
[मूलराबः] शरुयसी क्षुरिकाखड्गी स्वसोदाँ नु स्वकीयौ भगिनीमिव सोदर्यमिव चादरादित्यर्थः । विभ्राणौ । कीदृशौ शरुयसी । यमपुत्री नु यमस्य सुता च पुत्रश्च पुत्राविव मृत्युहेतुत्वकृष्णत्वादिना यमपुत्रिकापुत्रतुल्यौ । तौ । इत्यत्र "त्यदादिः" [१२०] इति स्वदौदेः शेषः ।
प्रात्रोः । सोदयौं । पुत्रौ । सुतयोः । इत्यत्र "मातृ" [१२] इत्यादिना भावपुत्रार्ययोः शेषः ॥
कुमारमातापितरौ प्रद्युम्नपितरौ च ते ।
क्रुद्धावयेति चौलुक्यो ब्रुवन्दैत्यमपातयत् ॥ १०२ ॥ १०२. चौलुक्यो दैत्यमपातयद्गजाभूमावभ्रंशयत् । कीहक्सन् । ब्रुवन् । किमित्याह । कुमारमातापितरौ गौरीश्वरौ प्रद्युमपितरौ च लक्ष्मीविष्णू च ते तवाद्य क्रुद्धाविति ॥
पितरौ । इत्यत्र "पिता मात्रा वा" [१२२] इति पितुर्वा शेषः ॥ पक्षे । मातापितरौ । मातुरच॑स्वात्पूर्वनिपातः ॥
स तं शिवश्वशुरयोः पुत्रो नृत्पत्य दुर्धरः ।
आक्रन्दिश्वश्रूश्वशुरं वबन्धेभवरत्रया॥१०३ ॥ १०३. स मूलराजस्तं प्राहारिमिभवरत्रया बबन्ध । किं कृत्वा । दुर्धरो महाबलत्वात्केनापि धर्तुमशक्यः सब् श्वशुरश्च श्वश्रूश्च श्वशुरौ शिवस्य शंभोः श्वशुरौ शिवश्वशुरौ तयोहिमाद्रिमेनयोः पुत्रो नु मैनाका
१५ सी वदेति. २ बी वस्वमर.
१ सी दारेः शे. २५ सी दर्यो । पु. ३ सी ममावनं. ४ए सी 'क्ष्मीतिष्ण. ५ ए सी मुर'. ६ बी टी श्वसुरो. ए सी नयो पु.