________________
४१६
व्याश्रयमहाकाव्ये
तौ स्निग्धं वाक्त्वचं पीठच्छत्रोपानहमुद्वहन् ।
धवखदिरपलाशान्यविश्यैक्षिष्ट नारदः ॥ ९८ ॥
९८. नारदः कलिकारकर्षिः शस्त्रापातभयाद्धवखदिरपलाशांस्तरुभेदान्प्रविश्य तौ नृपावैक्षिष्ट । कीदृक् । स्निग्धमरूक्षं वाक्त्वचं वचनमङ्गच्छविं च पीठच्छत्रोपानहं मुनित्वाद्वृसीछत्रिकापादुकाश्चोद्वह
न्धारयन् ॥
[सूकराजः ]
मयूरव्यंसकच्छात्रव्यंसकी "मयूर" [११६] इत्यादिना निपात्यौ ॥ लक्षन्यग्रोधौ । वाक्स्वचम् । धवखदिरपलाशान् । पीठच्छत्रोपानहम् । इत्यत्र
“श्चार्थे” [११७] इत्यादिना द्वन्द्वः ॥
अयोत्क्षिप्य भ्रुवौ वक्रे कुटिले दंष्ट्रिके रुषा । पृथुभीमे दृशौ दैत्यो महाभीमे भुजे दधत् ।। ९९ ॥ तुल्यो हरीणामुत्पच्याध्यास्त चौलुक्यदन्तिनम् । शस्त्रीखङ्गौ बहन्मातृमातारौ कीर्तियुद्धयोः ॥ १०० ॥
१ एसी 'वौ चक्रे.
१ ए सी कर्षिश. • भ्र. ५ सी जी सं
९९,१००. अथानन्तरं दैत्यो माहारिरुत्पत्योत्प्लुत्य चौलुक्यदन्तिनमध्यास्त मूलराजवधायारोहत् । किं कृत्वा । रुषा कोपेन कुटिला च वक्रा च वक्रे भू भूश्च भ्रुवौ नयनोर्ध्वरोमपद्धती उत्क्षिप्योत्पाट्य । तथा कीहक्सन् । दधद्धारयन् । के के इत्याह । रुषा वक्रा च कुटिला च कुटिले । दंष्ट्रिका च दंष्ट्रिका च दंष्ट्रिके श्मश्रुणी ।
२ बी शस्त्रपा. ३ ए सी बाक्त्वं च । ष.
४ ए सी