________________
४०४
खाश्रयमहाकाव्ये
[मूलराजा
समिती मिलिताः । अकिंचित्करा इत्यर्थः । अभवन् । चः समुचये । परे चान्ये च शत्रवः पात्रबहुलाः पात्र एव बहुला बहवोकिंचित्करा अभवन् । यद्यस्माद्धेतोस्तैरुभयैरपि तत्रप्रहृतं प्राहारी प्रहरणं भस्मनिहुँवमाहुतिरिवाजायत निष्फलमभूदित्यर्थः ।।
यत्पूर्वाह्नपतिज्ञातं पूर्वरात्रपतिश्रुतम् ।
तदरण्येतिलक्षुद्रर्विस्मृतं तत्र निम्नति ॥ ७५ ॥ ७५. यत्प्रस्तावायुद्धं पूर्वाहप्रतिज्ञातमपराह एवमेवं योत्स्यत इति पूर्वदिनेङ्गीकृतं तथा यत्पूर्वरात्रप्रतिश्रुतं प्रातरेवमेवं योत्स्यत इति पूर्वरात्रङ्गीकृतं तदरण्येतिलक्षुट्टैररण्ये तिलास्तिलभेदास्तद्वत्क्षुद्रनिःसत्त्वैर्भटैस्तत्र ग्राहारौ [नि?]मति प्रहरति सति विस्मृतम् ॥ पात्रेसमिताः । पात्रेबहुलाः । एतौ "पात्रेसमितेत्यादयः" [९] इति साधु ॥ भमनिहुँतम् । इत्यत्र “केन" [२२] इति तत्पुरुषः । तत्रप्रहृतम् । पूर्वाहप्रतिज्ञातम् । पूर्वरात्रप्रतिधुतम् । इत्यत्र "त" [९] इत्यादिना तत्पुरुषः ॥ अरण्येतिल । इत्खन्न "नानि" [१५] इति तत्पुरवः ।।
रणदेयां न्वदात्पूजां मौलिनीलोत्पलैर्दिषाम् ।
लोहितस्तक्षकः सर्पो नातीव्रोस्य युध्यसिः ॥७६ ॥ ७६. अस्य प्राहारेरसिर्द्विषां मौलिनीलोत्पलैर्मस्तकैरेव नीलत्वामीलाजैः कृत्वा रणदेयां रणेवश्यं देयां पूजामिव युधि युद्धार्थमदाददौ । प्राहारीयासिच्छिमानेकारिमौलीनां रणाङ्गणे लुठितत्वादेवमाशका । कीदृक् । उग्रो यमजिलाकरालो यस्तीबस्तीक्ष्णः स उप्रतीव्रोत १एसी पद्विषा. २ सी 'ध्यसि ॥. १ सीता म. २ सी हुन्तमा . ३ ए डी सी हुरिति वा. ४ ए सी इमम् ।। ५ सीख ॥a.६ सी स । . .सी ष ॥