________________
है. ३.१.८४.]
पथमः सर्गः।
४०१
मित्यादि शिक्षणं दुष्करमभूत् । यथा गोपैरगोधुग्भिः कर्तृभिर्गवां कर्मणां दोहो दोहाइत्वेन दुष्करः स्यात् । यद्वा । यथागोपैरभूपै राजगुणविकलैर्गवां भुदरा दोहो रनादिक्षारणं दुष्करः स्यात् ॥
गवां दोह हवागोपैः । इत्यत्र "तृतीयायाम्" [८४] इति कर्मजा पष्ठी न समखते । तृतीयायामिति किम् । दुष्करं राज्ञां भृत्यानुशासनम् ॥ कर्तरि षष्यामपि न समास इति कश्रित् । तस्य युधः कृतौ ॥
मांसस्य तृप्तान्सोस्रस्य सुहितान् राक्षसान्व्यधात् ।
लडापतेर्द्वितीयो नु राज्ञां साक्षादरेषिन् ॥ ६९ ॥ ६९. हरेद्विषन्दैत्यत्वादिन्द्रस्य शत्रुः स प्राहारी राज्ञां साक्षात्समक्षं राक्षसान्व्यधात् । किंभूतान् । अनेकारिवधेन मांसस्य तृप्तानाघ्राणानस्य रक्तस्य च सुहितान् । अतश्च राक्षसानां तृप्त्यापादनलक्षणतुल्यकार्यविधानालङ्कापते रावणस्य द्वितीयो ने द्वितीय इव रावण इत्यर्थः ॥
विक्रान्तानां स्तुवानोसौ त्रस्तानां विब्रुवन्नहन् ।
राज्ञां ज्ञातान्सतां बुदान्यमस्येष्टः कलेर्मतः ॥ ७० ॥ ७०. असौ ग्राहारिमैटानहन् । कीहक्सन् । विक्रान्तानां शूराणां स्तुवानस्तथा त्रस्तानाम् । पूर्वत्रात्र च संबन्धे षष्ठी। विब्रुवन्निन्दन् । तथानेकारीणां वधकत्वेन यमस्य मृत्योरिष्टः । कले रणस्य मतः संमतः । यद्वा । पापिष्ठत्वात्कलेः कलिकालस्य मतः । कीदृशान् । राज्ञां साताम् शौर्यादिगुणैः प्रसिद्धान् । वथा सतां शिष्टानां बुद्धान् न्याययोधित्वादिशिष्टोचितक्षात्रधः प्रसिद्धान् ॥
१सी क्षण दु. २ ए सी नाभणा'. ३ एसी मर.४ ए सी तृप्तापा. ५डी नुदिती. ६एसी मत सं.