________________
४०० व्याश्रयमहाकाव्ये
[मूलराजः] यावन्तं कालं न कोपि हन्ति तावन्तं कालमित्यर्थः । परान्नन् । तथारीभानां शत्रुहस्तिनां दन्तानां लेखको दन्तैलेखको दन्तविलेखनाजीवः स इव यथा दन्तलेखको दन्तकर्म कुर्वन्दन्तान्भिनत्ति तथारिगजदन्तान्भिन्दंश्च ॥ सर्वपश्चात् । सर्वशिरम् । इत्येतो "सर्व" [८०] इत्यादिना साधू ॥ चूतभलिकाम् । दन्तलेखकः । इत्यत्र "अकेन"[1] इत्यादिना तत्पुरुषः ॥
गजानामासिका कुम्भेष्वस्त्राणां क्षेपकोतनोत् ।
क्रुद्धः मुराष्ट्रभूभर्ता पुरां भेत्तेव दुस्सहः ॥ ६७ ॥ ६७. सुराष्ट्रभूमर्ता ग्राहारिर्गजानां कर्तृगामासिकामवस्थानमतनोधके । तीव्रप्रहारैर्गजान् रणेपातयदित्यर्थः । कीदृक्सन् । पुरा भेत्तेव तिसृणां दानवपुरीणां कर्मणां विदारको रुद्रः स इव क्रुद्धः सन् दुस्सहो दुर्धर्षांत एव कुम्भेषु कुम्भस्थलेष्वस्त्राणां कर्मणां क्षेपकः॥
गजानामासिकाम् । इत्यत्र "न कर्तरि" [८२] इति न तत्पुरुषः ॥
अखाणां क्षेपकः । पुरां भेत्ता । इत्यत्र “कर्मजा तृचा च" [८३] इति न तत्पुरुषः ॥ कयं भूभा । मतशब्दो यः पतिपर्यायस्तेन संबन्धषष्ठया याजकादिपाठात्कर्मषध्या वायं समासः ॥
गवां दोह इवागोपै राज्ञां भृत्यानुशासनम् ।
नश्यतां दुष्करमभूत्तस्योपायां युधः कृतौ ॥ ६८॥ ६८. उपायां तस्स पाहारेः कर्तुयुधः कर्मणः कृती करणे सत्यां नश्यतां राज्ञां कां भृत्यानुशासनं प्रेष्याणां कर्मणां भो मा पलायिध्व
१ सी गवा . १सीन्तवि'. २ टी पु स्व. ३ सी पुरा में. ४ सी दो xx पटिप. ५ वी डी गवन
-