________________
[है• ३.१.४४.]
पचमः सर्गः।
३८७
तृणानीवोत्क्षेप्नुमुत्पाटयितुं शरदुर्दिनं शरैः कृत्वा प्रकाशाभावेन निन्दितं दिवसं चक्रे । किं कृत्वा । असती कुत्सिता ज्या यत्र तदकुज्यकं श्रेष्ठप्रत्यश्वं धन्व धनुः स्वीकृत्य । येतः कीदृक् । अदुष्कृतो महाशूरत्वादकृच्छेण विहितो जयोनेकारिपराभवो येन सः । अनेकरणेपु लब्धजयपताक इत्यर्थः ।।
स्वीकृत्य । कुतृणवत् । इत्यत्र "गतिकु" [१२] इत्यादिना तत्पुरुषः ॥ अन्य इति किम् । अकुज्यकम् । अत्र बहुव्रीहित्वात्कच् स्यात् ॥
दुर्दिनम् । दुष्कृत । इत्यत्र "दुर्" [३] इत्यादिना तत्पुरुषः॥ सुराजा । इत्यत्र "सुः पूजायाम्" [४] इति तत्पुरुषः ॥
श्रीमालस्यातिराजातिसिञ्चन्नाताम्रक् शरैः।
विपक्षप्रभटान्व्यामोदतिवेल इवार्णवः ॥ ४५ ॥ ४५. श्रीमालस्य भिल्लमालापरनाम्नः पुरस्यातिराजा न्यायपालनेन पूजितोधिपोर्बुदेश्वरो विरुद्धाः पक्षा विपक्षाः शत्रवो ये प्रभटा: प्रकृष्टा भटास्तान् शराप्नोदाच्छादयत् । कीटक्सन् । आताम्रकोपेनारकाक्षोत एव शरैरतिसिञ्चन् रणाङ्गणमतिक्रमेण व्याप्नुवन्नत एव चोत्प्रे. क्ष्यते । अतिवेलो निर्मर्यादोर्णव इव ॥
प्रतिलोमान्यवेभानि संवर्माणि बलानि सः। उद्रणः परियुद्धानि नियुद्धान्यपंभीर्यधात् ॥ ४६ ॥ ४६. सोर्बुदेश्वरोपभीरपगतो मियोत एवोद्रणो रणायोद्युक्तः सन्ब
१ए सी डी भीन्या.
१ सी नीवाक्षेसु. २ ए सी डी यतो की'. ३५ सी पक्षाश. ४ बी 'भटाप्र. ५ डी रक्षाक्षो. ६ बी रैरिति.