________________
३८६
व्याश्रयमहाकाव्ये
[ मूलराज: ]
नाना सह यश: पर्यन्तं नामधेयपर्यन्तं वा यशः साकल्येन नामधेयसाकल्येन वा यशो नामधेयं वा यथा पश्चान स्थितमेवमित्यर्थः । महरन्स यथाधर्म सद्रोणं धनुषा वहन् ।
त्रायमाणो यथात्रस्तं तथा रेजे यथार्जुनः ।। ४३ ।।
४३. यथार्जुनो रेजे तथा सोर्बुदेश्वरो रेजे यतो यथाधर्म क्षात्रधर्मस्यानतिक्रमेण प्रहरंस्तथा धनुषा धनुःकर्मणा कृत्वा सद्रोणं द्रोणाचार्यसादृश्यं वहंस्तथा यथात्रस्तं येये भीतास्तांस्त्रायमाणो रक्षन ॥
099
द्विपरि । अक्षपरि । शलाकापरि । इत्यत्र "संख्याक्ष " [३८] इत्यादिना
व्ययीभावः ॥
अध्याजि । उपनदि । सुभिक्षम् । दुःसुरराष्ट्रम् । निःसुराष्ट्रम् । अतिम्लेच्छम् । अत्यस्वम् । अनुद्विपम् । अनुज्येष्टम् । इतिमूलराजम् । सचक्रम् । सकुलम् । सकीर्ति ॥ साकल्येन्ते च । सार्णवम् । सनाम । इत्यत्र “विभक्ति" [३९] इत्यादिनाव्ययीभावः ॥
I
अनुरूपम् । प्रत्यरि । यथाधर्मम् । सद्रोणम् । इत्यत्र " योग्यता" [४०] इत्यादिनाव्ययीभावः ॥
ययात्रस्तम् । इत्यत्र " यथाथा” [४१] इत्यन्ययीभावः ॥ अथा इति किम् । बार्जुनः ॥
स्वीकृत्याकुज्यकं धन्वोत्क्षेप्तुं कुतृणवत्परान् ।
सोदुष्कृतजयश्चक्रे सुराजा शरदुर्दिनम् ॥ ४४ ॥
४४. सुराजा न्यायित्वात्पूजितो नृपोर्बुदेश्वरः परान्कुतृणवदसार
१ सी जुंनो १.
१ ए सी अज्याजि ।.