________________
૨૮૮ स्याश्रयमहाकाव्ये
[मूलराजः] लानि शत्रुसैन्यानि परियुद्धानि युद्धाय परिग्लानानि नियुद्धानि युद्धा. निष्क्रान्तानि च व्यधात् । कीशि सन्ति । प्रतिलोमानि लोमानि प्रतिगतानि प्रतिकूलं गतानीति व्युत्पत्तिमात्रं लक्षणया द्विषन्ति । तथावेभानीभैरवक्रुष्टानि गजबृंहितोपेतानीत्यर्थः । तथा संवर्माणि वमणा संनद्धानि ॥
अतिक्रमे । भतिसिजन ॥ पूजायाम् । अतिराजा । इत्यत्र "अतिर्" [५] इत्यादिना तत्पुरुषः ॥
आताम्र । इत्यत्र "आडस्पे" [४६] इति तत्पुरुषः ॥ प्रादयः । प्रभटान् । विपक्ष ॥ अत्यादयः । अतिवेलः । प्रतिलोमानि ॥ अवादयः । भवेभानि । संवर्माणि ॥ पर्यादयः । परियुद्धानि । उदणः ॥ निरा. दयः । निर्युदानि । अपभीः । इत्यत्र "प्रात्यव" [५] इत्यादिना तत्पुरुषः ॥
पुनःप्रवृद्धरोमाञ्चपुनरुत्स्यूतकचकः ।
परमारः सोसिघातं अख्याघातं द्विषोक्षिपत् ।। ४७ ॥ ४७. परान् शत्रून्मारयति "कर्मणो" [५.१.७२] इत्यणि परमारः । परमारः क्षत्रियविशेषजातिः । सोर्बुदेश्वरोसिघातं खड्न हत्वा शख्याघातं क्षुरिकया हत्वा च द्विषोक्षिपन्निराकरोत् । कीटक्सन् । पुनः प्रवृद्धा वीररसोत्कर्षाढूयः स्फीतीभूता ये रोमाञ्चास्तैः पुनरुत्स्यूतो भूयस्तुटितः कक्षुको वर्म यस्य स तथा ॥ पुनःप्रवृद्ध । पुनरुत्स्यूत । इत्यत्र "अव्ययम्" [४८] इत्यादिना तत्पुरुषः ॥ परमारः । इत्यत्र "हस्युक्तं कृता" [१९] इति तत्पुरुषः ॥
१एसी युधाय. २ ए सी नियु. डी नि यु. ३ सी नि प्रति प्र. ४बी संबद्धा. ५ ए सी डी पः ॥ अता. ६ ए सी °दय । अ. ७ ए बी सी मारक्ष. ८ सी पु. ९ वी वृद्धः । पु.