________________
૨૮૨
व्याश्रयमहाकाव्ये
[ मूलराज: ]
न्वर्जयित्वापात चं प्रहारादिना पीडितांश्च वर्जयित्वा । तथा यावद्रिपु यावन्तो रिपवस्तावैत इत्यर्थः । तथा आजयं विजयं मर्यादीकृत्य ॥
9
सेना मागर्बुदं राज्ञां बहिर्व्यूहं प्रतिद्विपम् ।
अभ्यश्वं च प्रसृत्यानुजम्बुमालि स्थिता बभौ ॥ ३७ ॥
1
३७. प्रागर्बुदमर्बुदाद्रेः प्राक्पूर्वदिग्वासिनां राज्ञां मूळराजनृपाणां सेना बभौ । कीदृक्सती । बहिर्व्यूहं मूलराजीयाञ्चक्रगरुडादेर्व्यूहाद्वहिर्भूता । तथा प्रतिद्विपमभ्यश्वं च प्रसृत्य रिपूणां द्विपानश्वांश्च हैक्ष्यीकृत्याभिमुखं विस्तीर्यानुजम्बुमालि स्थितातिबहुत्वाज्जम्बूमाल्या उक्षणभूताया आयामेनावस्थिता । अर्बुदसेनातिशूरत्वाद्व्यूहान्निर्गत्य युद्धार्थ शत्रूनभि प्रसृतेत्यर्थः ॥
कचाकचि । कुन्ताकुन्ति । इत्यन्त्र " तत्रादाय” [२६] इत्यादिनाव्ययीभावः ॥ लोहितगङ्गम् । इत्यन्न “नदीभिर्नानि” [२७] इत्यव्ययीभावः ॥
पञ्चनदम् । त्रिगोदावरम् । इत्यत्र "संख्या" [२८] इत्यादिनाव्ययीभावः ॥ अन्ये तु पूर्वपदप्राधान्येव्ययीभावो गोदावरीणां त्रित्वं त्रिगोदावरम् । समाहारे तु द्विगुरेवेत्याहुः । द्वयोर्गोदावर्योः समाहारो द्विगोदावरि ॥
द्विमुन्यस्य । सप्तकाशि स्वराज्यस्य । इत्यत्र "वंश्येन" [२९] इत्यादिनाब्ययीभावः ॥ यदा तु विद्यासद्वतामभेदविवक्षा तदैकसुनि धनुर्वेदमित्यादि सामानाधिकरण्यं स्यात् ॥
१ सी 'हं मूलराजी'.
एसी च प्राहा. २ ए सी डी बन्° ३ ए सी डी ब्क्षीक. ४ सी डी क्षणामू