________________
[.. ३...२६.] पचमः सर्गः ।
२८१ त्रिगोदावरं च मेने । प्राणत्यागेन स्वर्गफलत्वाहिगोदावरित्रिगोदावरतीर्थयोस्तुल्यं मेन इत्यर्थः । लोके हि द्विगोदावरि त्रिगोदावरं च तत्र प्राणत्यागिनां स्वर्गहेतू महातीर्थे प्रसिद्ध । कीहक्सन् । एको मुनिवंश्य आद्यः कारणपुरुषोस्य तदेकमुनि धनुर्वेदं धनुर्विद्याशास्त्रं दर्शयन्सदभ्यस्तधनुर्विद्यत्वेनालीढादिस्थानानि सम्यक्सत्यापयन् । तथास्य धनुर्वेदस्य द्विमुनि च द्वौ मुनी वंश्यो चै दर्शयन् द्विमुनिकृतधनुर्वेदोक्तधनु:कलानां सम्यक्सत्यापनेन द्वौ मुनी साक्षादिव दर्शयन् ॥
सप्तकोनि खराज्यस्य गङ्गापारपंतिः स्मरन् ।
पारेरिचमु मध्येश्वमिभमध्येर्दयन्ययौ ॥३५॥ ३५. गङ्गापारपतिर्गङ्गातीराधिपो मूलराजसेवकः काशिदेशराजः पारेरिचर्मु शत्रुसेनापारं ययौ । कीटक्सन् । स्वराज्यस्य सप्तकाशि सप्तकाशीन्काशिदेशाधिपानववंश्यान्स्मरन् सप्तापि स्वानि कुलानि रणपारगतादिगुणोपेतानि परिभावयनित्यर्थः । अत एव मध्येश्वं तुरङ्गचमूमध्य इभमध्ये हस्तिचमूमध्येर्दयन्नरिचमू नन् ॥
कोप्यन्तर्धनुराज्यन्तः कराग्रेग्रेधिपं शरान् ।
यावद्रिषु परिक्लीवमपात चाजयं न्यधात् ॥ ३६॥ ३६. कोपि गूर्जर आज्यन्ता रणमध्येप्रेधिपं स्वस्खाम्यने वर्तमानोन्तर्धनुश्चापमध्यभागे कराम आकर्णान्तमाकृष्टत्वाद्धस्तयोरप्रभागेच वर्तमानान् शराज्यधाच्छत्रुष्वक्षिपत् । कथम् । परिलीबं निःसत्वा
१९ सी कासि स्व. २५ सी पति स्म'.
१बी वरीती'. २५ सी शानद. ३बीच द. ४एसी मु सित्रु'.
मध्ये १.
५