________________
३६४
धाश्रयमहाकाव्ये
[मूलराजः]
द्वारं नाम पुरं देशो वा तत्स्वामिनी । तथा रेवतिमित्रस्यैवंनाम्रो नृपस्य मित्रे ॥
महिनीत । शैलप्रस्थ । इत्यत्र "ड्यापः" [९९] इत्यादिना हवः ॥ बहुँ। लवचनावचिद्विकल्पः । रेवतिमित्रस्य रेवतीमित्र । गङ्गमहें गङ्गामह । कचित्र । नान्दीतूंर्यम् । गङ्गाद्वार ॥
रोहिणित्वमजत्वं च नृपैर्दातुं प्रतिश्रुतम् ।
भयस्पृशे रोहिणीत्वमजात्वमभयस्पृशे ॥ ३॥ ३. नृपैर्मूलराजसत्कभूपै रोहिणित्वं गोत्वमजत्वं व छागीत्वं च दातुं प्रतिश्रुतं प्रतिज्ञातम् । सामान्येनोक्त्वा विशेषेणाह । भयेत्यादि । भयस्पृशे कातराय रोहिणीत्वं दातुं प्रतिश्रुतम् । गौवध्येति भरिणामवध्यत्वमङ्गीकृतमित्यर्थः । अभयस्पृशे शूरायाजात्वम् । अजा हि वध्येति शूरा एवास्माभिहन्तव्या इति प्रतिज्ञातमित्यर्थः । एतेन नृपाणां क्षात्रो धर्म उक्तः ।।
रोहिणित्वम् रोहिणीत्वम् । अजत्वम् भजात्वम् । इत्यत्र “वे" [१००] इति बहुलं हवः ॥
भटा भटेषु भ्रुकुटिं भ्रुकुंसा नर्तकीष्विव । दधुर्धकुंसकौन्तेयभ्रकुटीभृद्यमोपमाः॥४॥ ४. भटा मूलराजयोधा भटेवरियोधेषु विषये भृकुटि सकोपभ्रू. विकारं दधुः । यथा भ्रुकुंसा: स्त्रीवेषधारिणो नटा नर्तकीषु विषये
१बी मजत्व. २ बी “धुर्धकुं. ३ वी कौतेय. १बी नो मित्रस्य. २ ए सी डी 'त्रातः । शै'. ३ ए सी हुव. ४ ए सी ह । क. ५ ए सी डी तूर्य । ग. ६ ए सी णां क्षेत्राप'. टीगां क्षत्रध.