________________
व्याश्रयमहाकाव्ये पञ्चमः सर्गः ।
शैलमस्थमहित्रातरेवतीमित्र भूभुजाम् । सैन्येभूत्तस्य पुंनाव्यनान्दीर्य ध्वनद्धनुः ॥ १ ॥
१. तस्य मूलराजस्य सैन्ये । शिलानां प्रस्थमिव शिलप्रस्थं नाम पुरं तत्र भवः शैलप्रस्थ: । महीं त्रासीष्टासौ “तिकृतौ नान्नि” [५.१.७१] इति के महित्रातो नाम । रेवती मित्रमस्य रेवतीमित्रो नाम । पदत्रयद्वन्द्वे ते ये भूभुजो मूलराजनृपास्तेषां ध्वनेज्याकर्षवशाच्छब्दायमानं धनुरभूत् । कीदृक् । नान्दी पूर्वरङ्गाङ्गं द्वादशतूर्याणां निर्घोषः । तानि चेमानि । भम्भा-मुकुन्द-मद्दल-कडम्ब-झलरि - हुडुक - कंसाला ।
काहल - 1
3- तिलिमा सो वंसो पैणवो य बारसमो ॥
सूर्य तूरम् । नान्दी च तत्तूर्य च नान्दीतूर्यम् । पुंसां पौरुषोपेतानां महावीराणां नाट्याय नृत्ताय नान्दीतूर्यमिव । महाभटा हि धनुर्ध्वनिश्रवणैर्नृत्यन्तीव ॥
मित्रे रेवतिमित्रस्य रणायोत्तस्थतुस्तदा । गङ्गाद्वारपती गङ्गमहगङ्गामहानुजौ ॥ २ ॥
२. तदा गङ्गमहगङ्गामहानुजौ गङ्गमहाख्यस्तलघुभ्राता च मूलराजनृपौ रणायोत्तस्थतुः । किंभूतौ । गङ्गाद्वारपनी गङ्गाया द्वारं यत्र गङ्गा
१ बी "स्य". २ ए सी 'नर्ज्याक ३ बी 'डक'. ४ ए पणमो य वा सम्मे । सी पणेमा य वा सम्मे ।. ५ डी को दुबालस. ७ ए सी नादीतू.. ८ सी नाम.
६ ए सी नादीतू