________________
३६२
व्याश्रयमहाकाव्ये
[ मूलराजः ]
सदृशा । पराक्रमित्वप्रजापालकत्व रूपवत्त्वादिना तुल्येन । अत एव विप्रबन्ध्वो जातिमात्रेण ब्राह्मण्यस्तासामपि सुहृदा पालनया मित्रेण । कीदृग्बलम् । स्फूर्जन्ती स्फुरन्ती सारा स्थिरोत्कृष्टा वा धीर्युद्धविधिविषयं परिज्ञानं यस्य तत् । अत एव निश्चित दैत्यबलविनाशनेन ब्रह्मवन्धूप्रियं जातिमात्रब्राह्मणीनामपि वल्लभम् । तथा कारीषगन्धीपतिप्रायैः कारीषगन्ध्याख्यराशीभर्तृप्रमुखैर्नृपैः सह सहितम् । किंभूतैः । गार्गीपुत्रा द्विजाः । प्रस्तावात्तेत्र मन्त्रिणः । तथा महेन्द्रं हृयति महेन्द्रहूर्नाम राजा । तस्य सुता महेन्द्रसुताः । द्वन्द्वे । तद्युतैः । तथा श्रीसदनैश्चतुरङ्गबलादिलक्ष्मीनिवासैः । तथा भ्रूभङ्गभीमानेनैः कोपवशाद्भकुटीविधानरौद्रवकैः : 11
I
सारैधि । इत्यत्र "क्लीबे” [९७] इति ह्रस्वः ॥
लक्ष्मिपुत्र लक्ष्मीवर्लेभ । विप्रबन्धुसुहृदा ब्रह्मबन्धूप्रियम् । इत्यत्र "वेदूत" [ ९८ ] इत्यादिना वा ह्रस्वः ॥ अव्ययादिवर्जनं किम् । अव्यये । सज्जीकृतम् ॥ य्वृत् । महेन्द्रसुत ॥ ईच् । कारीषगन्धीपति ॥ ङी । गार्गीपुत्र ॥ इयुव् । श्रीसर्दनैः । भ्रूभङ्ग ॥ शार्दूलविक्रीडितं छन्दः ॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनद्व्याश्रयत्रृत्तौ चतुर्थः सर्गः संपूर्णः ॥
१ एसी 'तैगागीं. २ ए सी 'ननै को. ३ ए सी रखैल ४ बी सी 'हम: । वि° ५ ए सी 'य । मज्जी. ६ सी 'दनै भ्रू