________________
[ है ० २.४.५३. ]
चतुर्थः सर्गः ।
पाणिगृहीती स्ततर्जुर न्तर्वत्नीः पतिवत्नीष्वयोग्यमेके । केपि कराचीर्धृताञ्चलास्तु लवगीवद्वृषलीरिव प्रजन्नुः ॥ ६७ ॥
३४३
६७. एके भटा अन्तर्मध्ये गर्भोस्त्यासां ता अन्तर्वनीर्गुर्विणी: पाणिगृहीतीरूढास्ततर्जुर्निर्भर्त्सयामासुः । कथम् । पतिरस्त्यासां तासु पतिवत्नीषु जीवत्पतिकास्वयोग्यं हे रण्डे किमित्यधुना रोदिषीत्यादि पतिविनाशसूचकोक्त्यानुचितं यथा स्यादेवम् । एतदपि महारिष्टं । तुः पुनरर्थे । केपि भटाः पुनः कराचीरूढा वृषलीरिव दासीरिव प्रजन्नुयुद्धविघ्नभूता इति कोपाचपेटादिना निर्दयमताडयन् । यतः प्लवगीवद्वानरीरिव धृताञ्चला युद्धगमननिषेधायावष्टब्धपटप्रान्ताः । अञ्चलघरणेन स्खलनं भार्याहननं च द्वयमप्यरिष्टम् ॥
शूद्राश्च क्षत्रियाश्च विभ्युर्यद्य्काः पत्यंशुकेषु यच्च ।
जयदा क्षणपाक्यथाखुकर्णी गोवाली नष्टाथ शालपर्णी ॥ ६८ ॥
६८. यद्यस्माद्धेतोर्यूकाः पत्यंशुकेष्वभवन् यच्च यस्माद्धेतोश्च । जयदेवि सर्वपदेषु योज्यम् । जयदा विजयकारिणी क्षणपाक्यथ तथाखुकर्णी तथा गोवाल्यथ तथा शालपर्णी च नष्टा । एवंनाय ओषध्यो गतास्तस्माद्धेतोः शूद्राश्च मिश्रजातिस्त्रियश्च क्षत्रियाश्च क्षत्रियजातिस्त्रियश्च बिभ्युर्महारिष्टान्येतानीति मनसि चुक्षुभुः ॥
पाणिगृहीतीः । करातीः । इत्येतौ " पाणिगृहीती" [५२] इति यन्तौ निपात्यैौ ॥
पतिवस्त्रीषु । अतर्वत्नीः । इत्येतौ " पतिवत्नी" [ ५३ ] इत्यादिना निपात्यौ ॥
१ सी 'भ्युकाः २ बी शालिप .
१ सीम् ।पु. २ बी शालिप ३ ए सी ब्यन्यौ नि. ४ ए सी 'ना मिपा ..