________________
[है० २.४.४६.] चतुर्थः सर्गः ।
३४१ रुधिरंविलिप्ती रजोविलिप्ताभूयोर्दन्तकृताथ दन्तजाता। दन्तमिता गण्डशुप्क्यकाण्डे दन्तमतिपन्ना च दन्तिपतिः ॥ ६४ ॥
६४. अथ तथा रजोविलिप्तानल्पेन रेणुना लिप्ता द्यौर्योमाल्पेन रुधिरेण विलिप्यते स्म रुधिरविलिप्तीव रुधिरविलिप्त्या रक्ताभूत् । तथा दन्तिपशिश्वाकाण्डे प्रस्तावे गण्डौ शुष्कौ यस्याः सा गण्डशुष्की निर्मदाभूत् । कीदृक् । दन्तौ जातौ निष्पन्नौ यस्याः सा । अनेन मत्कुणत्वनिरासः । तथा दन्तौ मितौ परिमाणोपेतौ न ह्रस्वौ नातिदीघौं यस्याः सा । तथा दन्तप्रतिपन्ना दन्तशब्देनात्र दन्तगुणविशिष्टौ दन्तौ गृह्यते न सामान्येन । ततो दन्तौ दन्तगुणोपेतौ दन्तौ प्रतिपन्नौ परीक्षकैरङ्गीकृतो यस्याः सा. सर्वसल्लक्षणोपेतदन्तेत्यर्थः । अत एव दन्तौ कृतौ स्वर्णपट्टमठनतीक्ष्णीकरणादिना संस्कृतौ यस्याः सा । अनेन मूर्धाभिषिक्तत्वोक्तिः । पट्टहस्तिनां ह्यकाण्डे मदशोषो महारिष्टसूचकः॥
रुधिरविलिप्ती । इत्यत्र "कादल्पे" [१५] इति डीः ॥ अल्प इति किम् । रजोविलिता ॥
गण्डशुष्की । इत्यत्र "स्वागादेः" [१६] इत्यादिना डीः ॥ कृतादिवर्जन किम् । दन्तकृता दन्तमिता । दन्तजाता । दन्तप्रतिपन्ना ॥ मांसेप्टया शोणितेष्टयोच्चैधाल्या वहुयातयोपरिष्टात् । अजिनच्छन्नेव वाहिनी सा तिष्ठत्पतिरपि नष्टपत्यलक्षि ॥६५॥
६५. सा पाहारिसत्का वाहिनी चमूस्तिष्ठत्पतिरपि विद्यमानमाहारिलक्षणस्वामिकापि नष्टपनीव व्यपगतस्वामिकेवालक्षि लोकैमा॑ता ।
१ ए सी रवलि. १ बीती रु. २ ए सी डी मूर्धाभि'. ३ ए सी क्तवाक्तिः । ४ ए सी रवलि'. ५ सी कृताः । ६.६ सी मिताः । द.७५ सी डी ली व्यवप'.