________________
[है• २.३.१०५.] चतुर्थः सर्गः ।
३२१ रिपुरक्तजपार्चितासियष्टिविजयिन्यष्ट दिशः प्रकाशयित्री । प्रजियत्सति तं स्वसेव मृत्योायस्यद्य मुहिन्नसौ लसन्ती ॥३६॥
३६. असौ प्रत्यक्षा करतलस्था लसन्ती स्फुरन्त्यसियष्टिरद्य तं प्राहारि प्रजिघत्सति भक्षयितुमिच्छति । कीटक्सती । विजयिनी विजयहेतुरत एव सुहिन् सुष्टु हिंसिकार्थादरीणामत एव रिपुरक्तजपार्चिता शत्रुरुधिरमेवारतत्वाजपापुष्पं तेनार्चितात एव चाष्ट दिशः प्रकाशयित्री तदावरणरूपशत्रूच्छेदेन प्रकटयित्री । अतश्च यमादपि पूर्व प्राहारौ मरणरूपस्य यमकार्यस्य चिकीर्षुत्वादतिकृष्णरौद्रत्वाच्चोप्रेक्ष्यते । मृत्योर्यमस्य ज्यायसी बृहती स्वसेव भगिनीव । अनेन चासियष्टेम॑त्युस्वस॒त्वारोपेण मृत्योरपि स्वादेशकारित्वं व्यजितम् । तेन चाधुना कृतान्त इत्यादि यहूवेनोक्तं तदपास्तम् ॥
पलायमानाम् । प्लत्ययमा॑नान् । इत्यत्र "उपसर्गस्यायौ" [१००] इति लः ॥ निजेगिल्यते । इत्यत्र "मो यडि" [१०] इति लः ॥ गिलति । गिरति । इत्यत्र "न वा खरे" [१०२] इति वा लः ॥
पलिंघः परिधैं । पल्यङ्कम् पर्यकम् । पलियोग परियोगिणम् । इयंत्र "परे. घायोगे" [१०३] इति वालः ॥
लफिडम् ऋफिडजान् । ऋफिल ऋफिडजान् । इत्यत्र "ऋफिड" [१०४] इत्यादिना त लुत् उस्य च लो वा ॥ जवा जपा । इत्यत्र "जपादीनां पो वः" [१०५] इति वा पस्य वः ॥
सप्तमः पादः समर्थितः ॥
१ ए बी सी जयन्य.
१ ए सी रि जि. २ ए सी कयि'. ३ ए सी सूरत्वारो'. ४ ए सी मान् । ५ बी गिरीत्य. ६ ए सी डी लिघ । १०. ७बी रिघः । प. ८ ए सी त्यप.