________________
[ है० २.३.९९. ]
चतुर्थः सर्गः ।
३१९
प्रावनद्ध । इत्यत्र “पदेन्तरे" [ ९३] इत्यादिना न णः । अनाङीति किम् । प्राणद्धाम् ॥ अतद्धित इति किम् । शुष्कगोमयेण ॥
प्रम्नन् । इत्यत्र “हनो घि” [९४] इति न णः ॥
नरीनृत्यमान | नरिनर्ति । इत्यत्र "नृतेर्यहि" [ ९५] इति न णः ॥ अक्षुम्नत् । इत्यत्र “क्षुम्नादीनाम्” [ ९६] इति न णः ॥ गर्भनमत्ष्वष्कणासहैणीठ्यूतास्त्रैः ष्टयायंस्तमुज्जयन्तम् ।
यो विस्रमकल्पयत्स नः किं मित्रं स्यान्म्लेच्छी कृपीटक्कृप्तः ॥३३॥
I
३३. यो प्राहारिस्तं महातीर्थराजतया प्रसिद्धमुज्जयन्तं विस्रं दुर्गन्धमकल्पयञ्चक्रे । यतो गर्भेण नमन्त्यः प्रह्वीभवन्त्योत एव ष्वष्कणासहा गमनाक्षमा या एण्यो मृग्यस्ताभि: ष्ठचूतानि प्रहारवशान्निरस्तानि यान्यस्राणि रक्तानि तैः कृत्वा तं ष्टथायन्संबन्धयन्स ग्राहारिम्र्लेच्छया: कृपीटमुदरं तस्मात्कुप्सो जात इवोक्तरीत्यातिनिकृष्टाखेटेककारित्वात्किरातादिनीचजातितुल्यो नोस्माकं क्षत्रियाणां मित्रं किं स्यान्नैवेत्यर्थः ॥
नमत् । इत्यत्र " पाठे धातु " [ ९७] इत्यादिना णस्य नः ॥
सहा । इत्यत्र “चैः” [९८] इत्यादिना षस्य सः ॥ ष्ट्यादिवर्जनं किम् । ध्यायन् । छयूत । ष्वष्कण ॥
♚सः । अकल्पयत् । इत्यत्र "ऋर लुलम् ” [१९] इत्यादिना ऋरयोर्लुलौ ॥ अकृपीटादिष्विति किम् | कॅपीट ॥
प्लत्ययमानान्पलायमानान्यो गिलति निजेगिल्यते परस्तम् । गिरति तमन्योस्य मात्स्यनीतौ भुजपलिघः परिघत्वभाक्कथं नः ॥ ३४ ३४. नोस्माकं भुजपलिघो भुजार्गला कथं परिघत्वभाक् स्यात् । १ सी थं न ॥
१ सी 'नो यि" इ . २ बी टका ३ बी "ष स" इ. ४ बी कृत । अ ५ ए डी पीटः ॥