________________
[है. १.१.१.]
प्रथमः सर्गः।
चुलुक्यस्यादिक्षत्रियविशेषपुरुषस्यायं "तस्पेदम्" [१.३.१६०.] इत्यणि चौलुक्यः । स चासौ वंशश्च । यद्वा । चुलुकोत्पन्नः पुरुषोप्यभेदाधुलुकस्तस्यापत्यं वृद्धं गर्गादित्वाधभि[१.१.४२.] चौलुक्यस्तस्य वंशः संतानश्चौलुक्यवंशस्तस्मै भद्रं स्वस्त्यस्त्वित्याशीर्वादः । “तबदायुष्य." [२.२.६५.] इत्यादिना चतुर्थी । यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यत्र भवन्तीत्यस्योपलक्षणत्वात्पञ्चम्यादिपरोपि । तेनात्रास्त्विति झेयम्। आशीर्वाददाने हेतुर्गर्भ विशेषणमाह । कृप्तस्याद्वादसि. द्धय इति । स्यादित्यसधातोर्यात्प्रत्ययान्तस्य प्रतिरूपको विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिरव्ययः । अत्र तु भीमकान्तेति विशेषणेनानेकान्तस्यैव साध्यत्वादनेकान्तवृत्तियते । तस्य तत्पूर्वको वा वादः स्याद्वादो नित्यत्वानित्यत्वाचनेकधर्मशबलैकवस्त्वभ्युपगमरूपः श्रीमदार्हतमतप्रधानप्रासादचूलावलम्बिप्रलम्बोदण्डपाण्डुरपताकायमानोनेकान्तवादः । सिद्धिनिष्पत्तिओपनं वा । क्लप्ता निर्मिता स्याद्वादस्य सिद्धियेन तस्मै । स्याद्वादसिद्धिविधानेपि हेतुविशेषणमाह । भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मन इति । भीमा रौद्राः कान्ताः सौम्या उद्धता अविनयप्रधाना उदात्ता विनयप्रधाना हिंस्रा धातुका: शान्ता दयाप्रधाना ये गुणा धर्मास्त एव धर्मधर्मिणोरभेदविवक्षया वंशस्य भीमत्वादिधर्मैः सहेक्यादात्मा स्वरूपं यस्य तस्मै । अत्र च भीमगुणात्मकत्वकान्तगुणात्मकत्वादीनां परस्परविरुद्धानामपि विरोधो रोधोभाग इव प्रत्यक्षप्रमाणमत्तवृषभेणं बाध्यमानो भंसते । यत उक्तम् ।
दृश्यत्वान्न विरोधोपि कथ्यते युक्तिशालिभिः ।
विरोधोनुपलम्मो हि यतो जैनमते मतः ॥ यदि येषामेकत्र दृश्यमानानामपि विरोध उद्भाव्येत तदैकस्मिन्नपि १ बी सी डी दानहे. २ सी डी गर्भवि. ३ सी डी धिर्विचा. ४ एफ कान्तासं. ५ सी डी °न्तवादसिद्धिनिष्पत्तिज्ञापन. ६ बी स्वाय. ७ सी डी लाविल°. ८ सी डी मकादी'. ९ सी डी यो भा'. १० सी डी भेणे वा. ११ सी डी भ्रंशते. १२ सी डी 'रोधानु.