________________
व्याश्रयमहाकाव्ये
[ मूलराजः]
यथा कश्चित्स्वस्वामिना प्रेषिते लिखिते समायाते स्वामिनीवन्तिरङ्गं बहुमानं प्रकटयन स्वामिनि सातिशयां प्रीतिं प्रकाशयत्येवं परमेष्ठिनो वाचकमर्हमिति प्रणिदधत् श्रीहेमचन्द्रसूरिर्मुख्य प्रणिधेयेर्हति सातिशयं प्र. णिधानं ख्यापितवान् । येन हि यस्य नामापि ध्यातं तेन स नितरां ध्यात इति यथोक्तमेव साधु । तथा सर्वपार्षदत्वादस्य काव्यस्य सर्वदर्शनानुयायी नमस्कारो वाच्य इत्यहंशब्देन परमेष्ठिशब्देन च हरिहरब्रह्माणोपि व्याख्येयोः । यथा परमेष्ठिनो हरेर्हरस्य ब्रह्मणश्च वाचकमहमिति प्रणिदध्महे । अर्हशब्दस्य होते त्रयोपि वाच्याः । यदुक्तम् ।
अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः ।
हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् ॥ इति । शेष प्राग्वव्याख्येयम् ॥
अहम् । इत्यनेन शब्दानुशासनसूत्रादिस्थः "अहम्" [1] इति नमस्कारः सूचितः । अक्षरं ब्रह्मेत्यादिना च तद्वृत्तिः सूचिता । अथैतत्कान्यनायकवंशमाशीर्वादपूर्व प्रशंसन्नाह ।
भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मने ।
भद्रं चौलुक्यवंशाय क्लुप्तस्याद्वादसिद्धये ॥२॥ २. चौलुक्यवंशाय चुलुके संध्यावन्दनाय विघात्राम्बुना भृते हस्ते भवो "दिगादिदेहांशायः"[...१२४.] इति वे चुलुक्यः । उक्तं च ।
अयोग्या मातङ्गाः परिगलितपक्षा: क्षितिभृतो जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः । इति ध्यातुर्धातुः क्षितिविधृतये सांध्यचुलुका
समुत्तस्थौ कश्चिद्विलसदसिपः स सुभटः ॥ १ सी पितलेखि. डी पिने लेखि. २ बी वान्तरं . सी बान्तरं प्र. ३ बी ईमिति. ४ सी डी ‘याः । ते य. ५ सी डी क्यः। यदुक्तम् ।। ६ ए "ः सुसु.