________________
[ है. १.१.१.] प्रथमः सर्गः ।
अहमित्यक्षरं ब्रह्म वाचकं परमष्ठिनः । सिद्धचक्रस्य सद्धीजं सर्वतः प्रणिदध्महे ॥ १ ॥ ५. अहमिति वर्णसमुदायं सर्वतः सर्वस्मिन्क्षेत्रे काले च प्रणिदध्महे । आत्मानं ध्यायकं बीजमध्ये न्यस्तं संश्लेषणाहकारैर्येयैः सर्वतो वेष्टितं चिन्तयामः । यद्वा । अहंशब्दवाच्येन भगवतार्हता ध्येयेनाभिन्नमात्मानं ध्यायकं ध्यायाम इत्यर्थः । कीदृशम् । निर्मुक्तात्मकत्वात्परमे पदे सिद्धिलक्षणे तिष्ठति । “परमाकित्" इत्यौणादिके कितीनि "भीरुष्ठानादयः" [२.३.३३.] इति यत्वे गणपाठसामर्थ्यात्मप्तम्या अलुपि परमेष्ठी तस्य परमेष्ठिनो भगवतोहतो वाचकं प्रतिपादकमत एवाक्षरं ब्रह्माभिधानाभिधेययोग्भेदोपचारादचलं ज्ञानं परमज्ञानस्वरूपपरमेष्ठिवाचकमित्यर्थः । यद्वा । अक्षरमिति भिन्नं विशेषणं ब्रह्मेति च । ततोक्षरं शाश्वतमेतदभिधेयस्य भगवतः परमपदप्राप्तत्वेनाविनश्वरत्वाद्ब्रह्म च परमज्ञानस्वरूपम् । यद्वा । अक्षरस्य मोक्षस्य हेतुत्वादक्षरं ब्रह्मणो ज्ञानस्य हेतुत्वाञ्च ब्रह्मात एव च सिद्धचक्रस्य सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्रं यत्रकविशेषस्तत्र सत् आध त्वेन प्रधानं बीजं तत्त्वाक्षरम् । स्वर्णसिद्ध्यादिमहासिद्धिहेतोः सिद्धचक्रस्य पञ्च बीजानि वर्तन्ते तेष्विदमार्यक्षरमित्यर्थः । तेन स्वर्णसिध्लादिमहासिद्धीनामिदं मूलहेतुरित्युक्तम् । अत एव चेदं ध्यानाहमित्यर्थः । नन्वहमित्यस्य योभिधेयः स एव प्रणिधेयत्वेन मुख्यः । अहमिति शब्दस्त्व. हद्वाचकत्वेन प्रणिधानाहत्वाद्गौणः । गौणं च मुख्यानुयायीति मुख्यस्यैव प्रणिधानं कर्तुमुचितम् । एवं चाहमित्यक्षरं ब्रह्मवाच्यं श्रीपरमेष्ठिनं सिदुचक्रादिबीजेन सर्वतः प्रणिध्मह इति कार्य स्यात् । अत्र चैवमन्वयः। सिद्धचक्रादिबीजेनाहमित्यनेन वाच्यं परमेष्ठिनं प्रणिदध्मह इति । नैवम् ।
१ सी डी ता ध्ये. २ सी डी ध्याया'. ३ एफ डी अस्य. ४ सी डी रूपं प. ५सी मेतत. एफ °मेव त°. ६ सी भव. ७सी डी नहे. ८ सी डी धमक्ष. ९ वी सी डी एफ यः । एते. १० सी डी सिवादि.