________________
[है० २.३.७८.] मृतीयः सर्गः ।
३०९ पश्चाद्गमिष्यसि । अत्रैव त्वं विनयसीत्यर्थः । तस्मादुर्वराया अविनाशनेन मैत्री कुर्वित्यर्थः ॥ ___ अथैवं भक्तिशक्त्युपदर्शनेन मैत्र्यां विधेयतयोक्तायामपि राशि किमप्यवदत्यवाच्यं छलं संभाव्य पृच्छंस्तदुचितदण्डोत्योत्तरयंश्वाह । अथ दुर्निगदं छलं त्वमन्तर्घ्यदधास्तत्पणिजल्पितेन किं नः । मा प्रनिजल्पाधुना कृतान्तः प्रनिकुर्वन्प्रनिखेलतु प्रनिद्विट् ॥१८॥
१८. अथेति प्रवे। दुर्निगदं पापत्वाहुःखेन वाच्यं छलमतिप्रच्छन्नास्कन्दनादिकूटप्रयोगं त्वमन्तश्चित्ते न्यदधा निहितवांस्तत्तदा नोस्माकं प्रणिजल्पितेन पूर्वोक्तेन किम् । निरर्थकत्वान किंचिदित्यर्थः । तथा मा प्रनिजल्प त्वमपि मा वादीस्त्वत्प्रतिवचनेनापि सृतमित्यर्थः । केवलं हे प्रनिविट् प्रकृष्टनिश्चितशत्रोधुना प्रनिकुर्वन् रणेन मृत्युरूपं शाठ्यं कुर्वन्कृतान्तो यमः प्रैनिखेलतु प्रक्रीडत्वर्थात्त्वया सह । आशिषि पञ्चमी । त्वं प्राहारिणा व्यापाद्यखेत्यर्थः ॥ __ तदेवं दण्डमुक्त्वा राज्ञेश्छलं प्राहारेापयितुं स्वयानमाह । पनिचिखनिषता त्वयामदाख्यां प्रेनिचके प्रणिपापचत्मकोपम् । तदलं प्रनिपापचन्मनास्त्वमणिदिष्टं प्रनिदेष्टुमेष यामि ॥१९॥
१९. यस्मादस्मदाख्यामस्मत्कीर्ति प्रनिचिखनिषतैवमास्कन्दनेन खनितुमिच्छता त्वया प्रणिपापचदत्यर्थसंतापकः प्रकोपः प्रबलकोधो यत्र तद्यथा स्यादेवं प्रैनिचक्रे पराभूतम् । अस्माकं पराभवः कृत
१ ए सी डी प्रतिखे'. २ डी प्रतिच'. ३ ए सी डी प्रतिदि'. ४ सी डी प्रतिदे'.
१ सी र्शमेन. २ वी परूपत्वा'. ३ सी प्रतिदि. ४वी प्रतिखे. ५ ए सी डी शस्थलं. ६ ए सी नेख'. ही प्रतिच'.