SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३०८ स्याश्रयमहाकाव्ये [ मूलराजः] मास्म प्रणिष्यो मा स्म विनीनशः । ईर्ष्या मा कृथा इत्यर्थः । एतेन ग्राहारिसंबन्धिपूक्तेषु गुणेष्वेकगुणोपेतमपि मित्रं दुर्लभं किं पुनरुक्त. सर्वगुणोपेतम् । यदुक्तम् । पराक्रमगुणेनैकं सदी चाभिंतपोषकम् । सन्यायं संपदोपेतं मित्रं पुण्यैरवाप्यते ॥ इति । एवंविधेन चानेन चेद्विग्रहं करिष्यसि तदा त्वमेव विनयसीत्यपि च व्यजितम् ॥ ___ अथेाजन्यभूम्युपद्रवमपि सामद गर्भोक्त्याविधेयं वदन्मैत्रीमेव विधेयतया सूचयन्नाह । पणिशान्तरिपाविहापणिदे प्रणिवहति प्रणिचायि सख्यमुच्चैः । प्रणिवात्मणिदिग्धसैन्यरेणुः प्रणियास्यस्य किमुर्वरां प्रणिप्सान् १७ १७. इह ग्राहारौ प्रणिचीयते स्वयमेवेत्येवंशीलं प्रणिचाय्युपचितं सख्यं प्रस्तावात्त्वद्विषयमुच्चैम्त्यर्थं प्रणिवहति धारयति सत्यस्य ग्राहारेरुर्वरां सर्वसस्याढ्यभूमिं किं किमिति प्रणियासि गच्छसि । कीहक्सन् । प्रणिप्सान्भक्षयन् । तथा प्रणिवानुड्डीयमानः प्रणिदिग्ध उपचितः सैन्यरेणुर्यस्य सः । प्रभूतसैन्यैर्विनाशयन्नित्यर्थः । कीदृशीह । अप्रणिद्रे सोद्यमेत एव प्रणिशान्तरिपो वशीभूतशत्रौ । शक्तस्य स्निग्धस्य च मित्रस्योर्वरोपद्रोतुं नोचितेत्यर्थः । अथ च । इह ग्राहारी प्रणिशान्ते पराभूत्या गतद रिपो विषये न तु त्वत्सदृशे दर्पोद्भुरे प्र. णिचायि सख्यं प्रणिवहति सत्यस्योर्वरां त्वं प्रणिप्सान्सन्कि प्रणियासि १ बी डी वान्प्रणि. २ ए सी यास्थि कि. १ ए सी दा वा श्रि. २ डी श्रित्य पो'. ३ डी दोपत्यं मि. ४ सीमेवं वि. ५ सी चरित्य. ६ सी ये तनुत्व'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy