SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [मूलराजः] तदेवं मैत्रीगर्भेषु बहुष्वप्यागमकारणेषूक्तेष्वमन्यमान इव राशि किंचिदप्रतिवदत्यन्यकारणाभावान्निरर्थक बलभ्रमणं न युक्तमिति वदति । पहयानि बलान्यदुर्नयस्त्वं न मुधैव भ्रमयेः प्रनायकानि । परिणश्यति जीवितेपि मैत्री नान्तर्णश्यति नोप्रनष्टपूर्वा ॥ १४ ॥ १४. हे राजन् प्रहयानि प्रकृष्टाश्वानि प्रनायकानि प्रकृष्टस्वामिकानि च बलानि मुधैव पूर्वोक्तनीत्या कारणाभावेन निरर्थकं न भ्रमयेः । नो मार्थे । नाचीचलः । यतस्त्वमदुर्नयो न्यायीत्यर्थः । न चास्माशत्रुतयांशङ्कथेवं सैन्यसंरम्भेणागमनं सार्थकं यतोप्रनष्टपूर्वा पूर्वमनपगता नो युष्माकमस्माकं च । “स्यदादिः" [ ३. १. १२० ] इत्यमच्छेषः । मैत्री जीवित परिणश्यत्यपि नान्तर्मध्ये हृदये नश्यति । येयन्ति दिनानि न गता साद्यापि मैत्री कथंचन नापयातीत्यर्थः । कवर्ग । वृषगामिणम् । गुरुकामाणि । नृमुखेण ॥ एकस्वर। वृत्रहणम् । सम्रपाणि । सुराष्ट्रपाणाम् । इत्यत्र “कवर्ग" [.६] इत्यादिना नित्यं णः ॥ अपकस्येत्येव । वरपकेन ॥ ण । प्रणमामि ॥ अन्तर् । अन्तर्णिनीषुः ॥ हिनु । प्रहिणोमि ॥ मीना। मा प्रमीणाः ॥ भानि । प्रयाणि । इत्यत्र “अदुरुपसर्ग" [७] इत्यादिना णः ॥ आनीयर्थवत एव ग्रहणादनर्थकस्य न भवति । प्रहयानि । अदुरिति किम् । अदुनयः ॥ येन धातुना युक्तोः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा भवन्तीतीह न भवति । प्रनायकानि ॥ परिणश्यति । अन्तर्णश्यति । अत्र "नः शः" [७४] इति गः ॥श इति किम् । अप्रनरें। १वी थे । माची. २ सी शक्यैवं. ३ वी षः । मेत्री. ४ वी र्थ ए. ५ बी "क्ताः प्रदाय'. ६ ए सी डी तिनंशः. ७बी नष्टः ॥
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy