SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ [ है ०२.३.७५. ] चतुर्थः सर्गः । ३०५ उतरपदान्त । सागरवाहिणम् गर्ववाहिनम् ॥ नागम । परीण्वन् परीन्वतः ॥ स्यादि । रिपुवापेण शरवापेन । इत्यत्र "वोत्तर " [ ७५ ] इत्यादिना वा णः ॥ अयुवपकाह्न इति किम् । क्षत्रिययूनः । परिपक्वानि । परिपक्केन । दीर्घायाम् ॥ द्रष्टा वृषगामिणं नु विभ्रगुरुकामाणि बलानि सन्नृपाणि । तं वृत्रहणं सुराष्ट्रपाणां सन्नमुखेण न हि व्यबोधयः किम् ॥१२॥ २ १२. वृषगामिणं वृषभवाहनं सोमनाथं सन्नृपाणि विद्यमानराजकानि बलानि सैन्यानि बिभ्रद्धारयन्सन्नु किं द्रष्टा आगौः । नन्वहं चेत्सोमनाथदर्शनायागां तत्किमिति सन्नृपाणि बलान्यबिभरमित्याशङ्कयाह । यतो गुरुर्महान्कामो वृषगामिदर्शनाभिलाषो येषां तानि । सुराष्ट्रदेशे हि सोमनाथोस्ति । यद्येवं तर्हि सुराष्ट्रपाणां सुराष्ट्रदेशरक्षिणां नृपाणां वृत्रहणमिन्द्रं तं प्राहारिं सन्नमुखेण प्रधानपुरुषमुखेन हि स्फुटं किं न व्यबोधयः किमिति नाज्ञापयः । येनायं सौहार्दातिशयात्तवाभिगमनादिप्रतिपत्तिं कुर्यादित्यर्थः ॥ 1 बरपकेनेक्षुणा समं किं शङ्खोदारान्तर्णिनीषुरम्भः । प्रणमामि तव प्रयाणि तत्किं प्रहिणोमि स्म वनानि मा प्रमीणाः १३ १३. वरपक्वेन वरेण सुस्वादुना पक्केन परिपूर्ण निष्पन्ने नेक्षुणेक्षुरसेन समं माधुर्यादिभिस्तुल्यं किं शङ्खोद्धारान्तः शङ्खोद्धाराख्यतीर्थमध्यादम्भो जलं निनीषुर्नेतुमिच्छुस्त्वमागाः । सुराष्ट्रेषु हि शङ्खोद्धा - राख्यं तीर्थमस्ति । प्रश्नयन्नेवोत्तरमाह । किं तव प्रणमामि तथा किं प्रयाणि शङ्खोद्धारजलानयनार्थ गच्छामि । तथा तदम्भः किं प्रहिणोमि प्रेषयामि । वनानि काननानि मा स्म प्रमीणा मा विनाशय ॥ 1 १ ए सी दृष्टा. डी दृष्ट्वा बृ. १ बी षवा'. २ ए सी डी कि दृष्टा. ३ ए सी डी 'गाः । अन्व ४ ए सी डी न्यवितर. ३९
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy