________________
३०४
याश्रयमहाकाव्ये
[ मूलराजः ]
अथ सागरवाहिणं जिगीषुर्नृपतिं कंचन गर्ववाहिनं त्वम् । क्षतरिपुबापेण तं स जिष्णुः शरवापेन न किं दिशः परीण्वन् ॥ १० ॥
१०. अथेति प्रश्नं । सागरशब्देनात्र लक्षणया सागरकूलमुच्यते । तं वहति स्वामितया प्राप्नोतीत्येवंशीलो यस्तं वेलाकुलाधिपं गर्ववाहिनमहकारिणं कंचन नृपतिं जिगीषुस्त्वमानाः । आगमकारर्णप्रश्नप्रस्तावात्पूर्ववृत्तादागा इति क्रियात्र संबंध्यते । एवमप्रेतनवृत्तत्रयेपि । एतदपि परिहरति । स प्राहारिस्तं नृपतिं किं न जिष्णुरपि तु साधु जयत्येव । कीदृक्सन । क्षता विदारिता ये रिपवस्तान्भूमौ पातनेन वपती अणि क्षतरिपुवापस्तेन । यद्वा । तो रिपुवापो लक्षणया शत्रुसन्तानो येन तेन शरवापेन बाणसन्तानेन दिशः परीण्वन् व्याप्नुवन् । तत्र कथनेन प्राहारिव निकटस्थः सुखेनैव तव शत्रुं जयेत्तस्मादेतज्जयाय तवागमनं न युक्तमित्यर्थः ॥
क्षत्रिययूनः परीन्वतः क्ष्मां दीर्घाह्नयां शरदि त्वमस्य वोत्कः । परिपकेनाद्य नः शुभेनाः परिपक्कानि फलानि तत्कृतानि ॥। ११ ॥
१४. दीर्घाहयां बृहद्दिनायां शरदि शरत्काले क्षत्रिययूनो विशेचणकर्मधारये क्षत्रियतरुणम्य क्ष्मां परीन्वतः स्वामित्वेन व्याप्नुवतोस्य प्राहारे: । वेति प्रभान्तरे । किमुत्कः मेहेनोत्कण्ठितः सन्नागाः । दीर्घायां शरदि निर्व्यापारस्य दिनेगच्छति प्राहारेमित्रस्यं मिलनायोन्मनाः किमत्रागत इत्यर्थः । यद्येवं तर्हि । आ विस्मये । नोस्माकं परिपक्केन परिपूर्ण निष्पन्नन शुभेन पुण्यकर्मणा कृत्वा तत्कृतानि शुभनिष्पादितानि फलानि कार्याण्यद्य परिपकानि परिपूर्ण निष्पन्नानि । यदि मिलनाय तवागमनं तदातिश्रेयस्तममित्यर्थः ॥
1
1
' सी 'नावच डी 'नावाद.
१ वी 'वन्ध्यते. २ ए सी डी पेण वा. ३ बी 'स्य मेल'.